SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २८ काव्यमाला। हृष्यतः समभवत्पृथक्पृथक्चारुकुञ्जरमुखस्य चेष्टितम् ॥ ४४॥ मामिकां तनुमवेक्ष्य भीषणां मा म भैषुरमराङ्गना इति । मायया कृतमनोहराकृतिः कौणपाधिपतिरिन्द्रमन्वगात् ॥ ४५ ॥ पार्श्वतः प्रथितवप्रविभ्रमास्तोयदाः शिरसि मण्डपश्रियः । अग्रतः सुरविमानसद्मनामङ्गणत्वमभजन्त संहताः ॥ ४६॥ खं व्यतीत्य सुरसंचयः क्षणात्क्षोणिसंश्रयनियुक्तवाहनः । द्वारकान्तिकनितम्बलम्बिनं नीलमम्बरमिवैक्षतार्णवम् ॥ ४७ ॥ उत्पतन्तमिव सन्मुखं मुदा चञ्चलेन पयसा खभावतः । अर्घदानमिव बिभ्रतं हरेरूमिहस्तधृतशुक्तिमौक्तिकैः ।। ४८॥ . खच्छवारितललक्ष्यमूर्तिना चारुरत्ननिचयेन संकुलम् । विप्रकीर्णमिव मेदिनीतले तारकोत्करकरम्बितं नमः ॥ ४९॥ कामलोललहरीकरेरितैः सान्द्रविद्रुमदलैः समौक्तिकैः। . अङ्कपालिलुलिताः समन्ततो भूषयन्तमिव निम्नगावधूः ॥ ५० ॥ रत्नराजिफणमण्डलोरगं क्रूरकर्मकमठोपपीडितम् । अप्रमेयमहिमानमीश्वरं पार्श्वनाथमिव मेचकाकृतिम् ॥ ५१॥ (कुलकम्) दन्तकान्तिचयचन्दनच्छटाः सप्रहासमथ विक्षिपन्निव । वीक्ष्य वारिधिवितीर्णलोचनामित्युवाच नमुचेररिः शचीम् ।। ५२ ॥ फेनमाल्यकृतकुम्भमण्डनं मुक्तवर्म जलमानुषैः पुरः । देवि वेतसवनाद्विनिःसरद्वारिवारणकुलं विलोक्यताम् ॥ ५३ ॥ सूक्ष्मबुद्बुदसमाजराजिता फेनराजिरियमायतोज्ज्वला । नीरनागपतिमुक्तकञ्चकश्रीतुलां वहति वीचिसंचिता ॥ ५४ ॥ १. 'कमठो दैत्यविशेषोऽपि' इति टिप्पणी.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy