________________
( १३४ ) त्वमवगाहनहेतुत्वं वर्तनाहेतुत्वं चेतनत्वमचेतनत्वं मूर्तत्वममर्तत्वं द्र. ब्याणां षोडश विशेषगुणाः । षोडशविशेषगुणेषु जीवपुद्गलयोः घडिति । जीवस्य ज्ञानदर्शनसुखवीर्याणि चेतनत्वममूर्तत्वमिति षट् । पुद्गलस्य स्पर्शरसगन्धवर्णाः मूर्तत्वमचेतनत्वमिति षट् । इतरेषां धधर्माकाशकालानां प्रत्येकं त्रयो गुणाः । धर्मद्रव्ये गतिहेतुत्वममूर्तत्वमचेतनत्वमेते त्रयो गुणाः । अधर्मद्रव्ये स्थितिहेतुत्वममूर्तत्वमचेतनत्वमिति । आकाशद्रव्ये अवगाहनहेतुत्वममूर्तत्वमचेतनत्वमिति । कालद्रव्ये वर्तनाहेतुत्वममूर्तत्वमचेतनत्वमिति विशेषगुणाः । अन्तस्थाश्च वारो गुगाः स्वजात्यपेक्षया १] सामान्यगुणा विजात्यपेक्षया त एव विशेषगुणाः । इति गुणाधिकारः ।
गुणविकाराः पर्यायास्ते द्वेधा स्वभावविभावपर्यायभेदात् (२) । अगुरुल वुविकाराः स्वभावपर्यायास्ते द्वादशधा षड् वृद्धिरूपाः षड् हानिरूपाः । अनंतभागवृद्धिः, असंख्यातभागवृद्धिः, संख्यातभागवृद्रिः, संख्यातगुणवृद्धिः, असंख्यातगुणवृद्धिः, अनंतगुणवृद्धिः, एवं ष
वृद्धिरूनास्तथा अनंतभागहानिः, असंख्यातभागहानिः, संख्यातभागहानिः, संख्यातगुणहानिः, असंख्यातगुणहानिः, अनंतगुगहानिः एवं षड् हानिरूपा ज्ञेयाः । विभावद्रव्यव्यञ्जनपर्यायाश्चतुविधा नरनारकादिपर्याया अथवा चतुरशीतिलक्षा योनयः । विभावगुणव्यञ्जनपर्याया म.यादयः । स्वभावद्रव्यव्यञ्जनपोयाश्चरम
१ द्रव्यक्षेत्रकालभावापेश्चया । २ स्वभावपर्यायाः सर्वद्रव्येषु विभाकपयोया जीवपुद्गलयोश्च ।