________________
(१२७ )
एवमेवहि चैतन्यं शुद्धनिश्चयतोऽथवा । कोऽवकाशो विकल्पानां तत्राखण्डैकवस्तुनि ॥ जडसब्भावं णहु मे जमा तं भणिय जाण जडदव्वे । जो संवेयणगाही सोहं णादा हवे आदा ॥ ४०६ ॥ जडस्वभावो नहि मे यस्मात्तं भणितं जानीहि जडद्रव्ये । यः संवेनग्राही सोऽहं ज्ञाता भवाम्यात्मा ॥
विपक्षद्रव्यस्वभावाभावत्वेन भावना-- मज्झ सहावं गाणं दंसण चरणं ण कोवि आवरणम् । जो संवेयणगाही सोहं णादा हवे आदा ॥ ४०७ ॥ मम स्वभावो ज्ञानं दर्शनं चरणं न किमप्यावरणम् । यः संवेदनग्राही सोहं ज्ञाता भवाम्यात्मा ॥
विशेषगुणप्रधानत्वेन भावना-- घाइचउकं चत्ता संपत्तं परमभावसब्भाव । जो संवेयणगाही सोहं णादा हवे आदा ॥४०८ ॥ घातिचतुष्कं त्यक्त्वा संप्राप्तः परमभावस्वभावम् । यः संवेदनग्राही सोहं ज्ञाता भवाम्यात्मा ॥
स्वस्वभावप्रधानत्वेन भावना-- सामान्यतद्विशेषाणां समर्थितं भवति इत्याह-- सामण्णं णाणाणं झाणे विसेस मुण सुस्सुभाइयं सव्वं । तत्थ हिया विसेसा इदि तं वयणं मुणेयव् ॥४०९॥