________________
अमरकीर्तिविरचितभाष्योपेता नरस्यापत्यं वा । नरामयते इति वाक्येन नरायणोऽपि । इरत्ययं हरिः । वेशाः सन्त्यस्य केशी । 'मन्यते जनः मधुः । “२मनिजनिना मधबतनाकाथ" एषामुप्रत्ययो भवति भघजतनाकाच यथासंख्यमादेशा भवन्ति । "वल वल्ल च ।" बलतीति बलिः । “इ: सर्वधातुभ्यः ।" बण्यते बाणः । तदादि.
सूदनः । तदादोनां केश्वादीनां सूदनो माशकर्ता रिः । ऋशी. मधुः, बलिः, बाणः, हरिण्यकशिपुः. मुरः, ५ एभ्यः शब्दभ्यः परत्रारिशब्द प्रयुज्यमाने नारायणनामानि भवन्ति । केशिवैरी । फेल्यरातिः । केश्यमित्रः।
केशिद्विष्ट । केशिसपनः | मधुवैरी । मध्वरातिः । मध्यमित्रः । मध्वारः । मधुदिन । मधुसपत्नः । मधुरिपुः । बलिवरी । बल्यरातिः । बल्यमित्रः । बलिहिट् । अलिसपत्नः । अलिरिपुः । बागावैरी । बाणारातिः । बाणामित्रः | बाणारिः । वागविट् । बाणसपनः । आगारभुः । हिरण्यकशिपुनिट् । हिरण्यकशिपुसपत्नः ।
हिरण्यकशिपुरिपुः । मुरवैरी । मुरारिः | मुरारातिः । मुरविट् । भुरसपानः । नुररिपुः । मधुशत्रुः | पाण२० शत्रुः । मधुसूदनः । बलिसूदनः । बलिबन्धनः । बारणसूदनः । हिरण्यकशिपुसूदनः । केशिसूदनः । इत्यादि पर्यायनामानि । शुरस्तस्यादिपुरुषस्तस्यापत्यम्, शौरिः। सौरिख । पद्म नामावस्य पद्मनाभः । .संज्ञायां नाभिः।' अधोक्षाणां जितेन्द्रियाणां जायते प्रत्यक्षीभवति, अधोक्षजः" | गां भुवं विन्दति गोविन्दः । वसुदेवस्यापत्यं चासुदेवः। मनुकेशः । श्रीवत्साङ्कः । श्रीपतिः । पीतवासाः । धिष्वक्सेनः । विश्व
रूपः । मुकुन्दः । धरशिधरः | सुपर्णकेतुः । वैकुण्ठः | जलशयनः । रथाङ्गपाणिः । दाशाईः । ऋतुपुरुषः । १५ पाकपिः । अच्युतः । इन्द्रावरज: | बभ्रः । विष्टरश्रवाः । वनमाल।। सनातनः । बिनः । शम्भुः ।
इत्याचूनाम् ।
लक्ष्मीः श्री! मिनीन्दिरा । चत्वारः श्रियाम् । "लक्ष दर्शनाकानयोः।" लेक्षयति दर्शयति पुण्यकर्माणं जनमिति लक्ष्मीः । लक्षेमोऽन्तश्च" अस्मादीप्रत्ययो भवति मोऽन्तश्च । “भज् श्रि ( सेवायाम् )।'' पुण्यकृतं अयतीति २० श्रीः। ॥ वचिच्छिश्रिद्रुम॒ज्वो क्रिदीर्घश्च" एभ्यः किप्प्रत्ययो भवति दीर्घश्र स्वरस्य चैप म् । गां मिनो
तोति गोमिनी । इन्दति परमैश्वर्श्वयुक्ता भवति इन्दिरा | कमला। पद्मा | पनवासा | हरिप्रिया । क्षीरोदतनया । माया । मा । ता" ५। ई। या । रमा | सीता | वला (चला) । भर्भरी । अग्विजापि ।
तत्पतिः शैलभूम्यादिघश्चक्रधरस्तथा ॥ ७६ ।।
तस्याः पतिस्तत्पतिः । लक्ष्मीपतिः । श्रीपतिः । गोमिनीपतिः । इन्दिरापतिः । इत्यादीनि हरि२५ नामानि स्युः । शैलभूम्यादिधरः ३ पर्वतधरः । शैलधरः । दरीभृद्धरः । अचलधरः । डिघरः । सानुम
धरः । गिरिधरः । नगधर । शिलोचयधरः । भूमिधरः । भूधरः । पृथ्वीधरः । गहरीधरः । मेदिनीधरः |
१. मन्यते जनैः 'खलत्वेन' इति शेषः । २. का० उ. सू० १३८ । ३. का० उ० २० ३।१४ ॥ ४. का सू० २०६४१ । वृत्तिः । ८ । ५. अधः कृतमक्ष जमैन्द्रियकं ज्ञानं येन, अधो न क्षीयते जातु इति वा विग्रहोऽधिकोऽन्यत्र । ६. “मजुकेश" शब्दस्य "विष्णु" पर्वायत्वे कल्परपि प्रमाण्यम्-'मजुकेशः कौस्तुभोराः सोमगों घराघरः ।" ३३२१७ । ७. ब च शब्दस्य नारायणार्थेऽमरोऽपि प्रमाणम् । “विपुले नकुले विष्णौ बभ्र: स्वारिपाले त्रिषु ।" ३।३।१७०। ८. का. उ. सू. ३३३५ । ६. का. उ. सू. २।२३। १०. "गोमिनी" शब्दस्य लक्ष्म्यर्थे प्रमाणं मृग्यम् । अप्रत्यविग्रहोऽपि चिन्त्यः । मत्वर्षे गोशन्दामिनि प्रत्यये डीधि गोपालिकाथै तस्य प्रसिद्धौ कोषान्तरसंवादः । ११. ता, ई,पा, एपो लदम्पर्थे प्रमाणम्"लक्ष्मी पदमा रमा या मा ता श्री कमलेन्दिरा" अभि. चि. २११४५ । "या" इत्पत्र ई श्रा इति च्छेदः । “लक्ष्म्पान्तु भरो विष्णु शक्तिः दोराब्धिमानुषी।" इति तट्टीकायाम् ।