________________
३६
अमरकीतिविरचितभाष्योपैदा उमायाः पतिः उमापतिः। विरूपाण्यचीण्यस्य विरूपाक्षः । विश्वेपु रूपं यत्य स विश्वरूपः । कपदीड स्त्यस्य कप: । कपर्दो जटाजूटः। कं शिरः पिपीति कपर्दः । श्रोणादिको दः । अपिशब्दात्-ईशानः | शशिशेखर : । पशुपतिः। शम्भुः । गिरिशः। श्रीकण्ठः । सर्वज्ञः । त्रिपुरान्तकः । भूनेशः । परमेश्वरः ।
अन्धकरिपुः । दक्षाध्वरध्वंसकः । स्रष्टा । वामदेवः । कामध्वंसी । व्योमकेशः । यहिरेताः । भीमः | भगः। ५ कृत्तिवासाः । वृषाङ्कः !
भागीरथी त्रिपथगा जाह्नवी हिमवत्सुता ।
मन्दाकिनी
पञ्च गङ्गायाम् | भगीरयेन राज्ञाऽवतारितस्वात्तत्वापत्यं वा भागीरथी । त्रिभिः पथिभिर्गच्छति त्रिपथगा'। त्रिमागंगा च । जहाना पीता श्रीत्रण त्यता जाहवी। जहोरपत्य वा जाह्नवी । १० दिमवतो हिमाचलस्य सुता हिमवत्सुता । मन्दाका मन्दा गतिरस्त्यरया 'मन्दाकिनी । मुरसरित् । विष्णुपदी। सरिद्वरा । त्रिदशदीपिका । त्रिस्रोताः। भीगनसूः। सुरनिम्नगा 1
धुपर्यायधुनी अाकाश शब्दतो (तः परत्र ) नदीपर्यायेषु गङ्गानामानि भवन्ति । खस्रोतस्विनी । विहायोधुनी । वियसिन्धुः । व्योमस्रवत्ती | नभोनदी। गगननिम्नगा । अम्बरापगा। धोनदो । अाकाशनदी। १५ अन्तरीक्षाद्विरेफा। मेधपथसरित् । वायुपथतरङ्गिणी । इत्यादीनि ज्ञातव्यानि ।
___ गङ्गानदीश्वरः ।। ७१॥ भागीरथ्यादिशब्दतः (परत्र ) ईश्वरपर्यायेषु हरनामानि भवन्ति । भागीरथीरामः । त्रिपथगाधिपः । जाहीपतिः । हिमवरसुतास्वामी । मन्दाकिनीनाथः । इत्यादीनि शातव्यानि ।
विधिधा विधाता च द्रुहिणोऽजश्चतुर्मुखः । पद्मपर्याययोनिश्च पितामहविरश्विनी ।।७२।। हिरण्यगर्भः स्रष्टा च प्रजापतिस्सहस्रपात् ।
ब्रह्मात्मभूरनन्तात्मा का सप्तदश ब्रह्मणि । विधति सृजति विधिः । विधत्ते वा विधिः । “उपसर्गे दः किः ।' विधति सृजति वेधाः । "सघातुभ्यो ऽसन् ।" "विध विधाने ।' विदधाति धारयति भूतानीति विधाता । २५ दृह्यत्यसुरेभ्यो द्रुहिणः । न जायतेजः । चत्वारि मुखानि वस्त्राण्यस्य चतुर्मुख । “पद्मपर्यायथोनिः"
पद्मपर्यायशब्दामे योनिशब्दे प्रयुज्यमाने धातुर्नामानि भवन्ति । तामरस निः। कमलयोनिः । नलिनयोनिः । पद्मयोनिः । सरोजयोनिः। सरसोरुहयोनिः । वरदण्डयोनिः । पु ..कभषः । महोत्पलजः । अरविन्दयोनिः । शवपश्योनिः । पुष्करयोनिः । इत्यादीनि ज्ञातव्यानि । दक्षमन्त्रादीनां लोकपितृणां पिता पितामहः । आत्मनो भूतानि विरिक्त पृथक करोति विरिश्चनः । विरिश्चः । विरिञ्चिश्च |
१. ग्रयाणां पथा समादारस्त्रिपथं तेन गच्छतीति वा। इत्थं च पूर्व समाहारद्विगौ कृते तत्र समासान्तविधानेन विपयशब्दस्त्याकारान्तत्वं सूपपाधं भवति । गंगाया स्त्रिपथगामित्वे भारतोतं वचनम्"क्षितौ तारयते मान् नागाँस्तारयतेऽन्यधः । दिवि तारयते देवास्तेन त्रिपथगा स्मृता ।।" २. मन्दमकित गन्तुं शीलमस्या इति वा । "अफ कुटिलायां गतौ ।' णिन् । डीपू । प्रन्योक्तविग्रह मन्दाकशब्दस्य मन्दगत्यर्थं प्रमाणं ग्यम् । ३. "विध विधाने । तुदादिः । सर्व धानु'य इन् किवं च । ४. का. सू० ४५/७० ५, का० उ० सू० ४५६