________________
१०
अमरकीर्तिविरचितमायोपेता वक्ता बाचस्पतियंत्र श्रोता शक्रस्तथापि तौ।
शब्दपारायणस्यान्तं न गतौ तत्र के वयम् ॥ १६ ॥ अस्य श्लोकस्य सुगमव्याख्या।
तथापि किश्चित् कस्मैचित् प्रतिबोधाय सूचितम् ।
बोधयेत्कियतुतिज्ञो मार्गशः सह याति किम् ।। २०० ।। तथापि मया घनञ्जयकविना सूचितं कथितम् कस्मैचित् प्रतिबोधाय शानाय । उतितो बोधयेत् ज्ञापयेत् । माशः वि. सह या छवि, कपि हुन गएति ।
प्रमाणमकलङ्कस्य पूज्यपादस्य लक्षणम् ।
द्विःसन्धानकवेः काव्यं रत्नत्रयमपश्चिमम् ॥ २०१ ॥ एतद्रत्नत्रयमपश्चिम नवीनमपूर्व वर्तते ।
कवर्धनञ्जस्येयं सत्कवीनां शिरोमणेः ।
प्रमाणं नाममालेति श्लोकानां हि शतद्वयम् ।। २०२॥ धनञ्जयस्य कवैः सत्कवीनां शिरोमणेः इति अमुना प्रकारेण इयं नाममाला इलोकाना शतद्वयं २०० प्रमाणमस्ति।
ब्रह्माणं समुपेत्य वेदनिनदव्याजात् तुषाराचल. स्थानस्थावरमीश्वरं सुरनदीव्याजात् तथा केशवम् । अप्यम्मोनिधिशायिनं जलनिधिध्वानोपदेशादही
फूत्कुर्वन्ति धनञ्जयस्य च मिया शब्दाः समुत्पीडिताः ॥२०३।।
अहो लोकाः धनञ्जयस्य च भिया कृत्वा शब्दाः समुत्पीडिताः सम्यक् प्रकारेण पीड़िताः २. फूत्कुर्वन्ति । किं कृत्वा पूर्व वेदनिनदव्याजात् मिषात् ब्रह्माणं समुपेस्य प्राप्य, ईश्वरं नुषाराचलस्थान
स्थावर सुरनदीव्याजात् प्राप्य, केशवं श्रीविष्णु किं विशिष्ट अम्भोनि धिशायिनं जलनिधिध्वानीपदेशात् समुपेत्य सुगमोऽयं श्लोकः।
इति महापण्डितश्रीमदभरकीर्तिना विद्यन श्रीसेन्द्रवंशोत्पन्नेन शब्दवेधसा कृतार्या धनञ्जयनाममालायां प्रथम काण्डं
व्याख्यासम्