________________
चतुर्थोऽङ्कः ।
६३
प्रथमा - हंजे एवं ख अहं तुमं विअ पुणो णिव्वंधिअ पुच्छंति पिअसहीए भणिदम्हि कलावईए जह सहि कोमुदीए पुव्वं खु वसंतदोलारोहणदिणे कामदेवघरब्भतेर दिट्ठो भट्टदारिआए भट्टा रामो पुणो अ माहविवणे अप्पम्हि उक्कंठतो दिट्ठो सो एव्व दाणिं भट्टिदारिआए संदावहेउत्ति ।
द्वितीया - हेला जुंजइ ।
प्रथमा - हेला किं दाणिं अम्हे भट्टिदारिआपासं गच्छेमो आदु चंदअंतधाराघर एव पडिवालेमो ।
द्वितीया - एव्वंखु अहं पिअसहिए भणिदह्नि विणीदाए जह सहि सुमारिए बहुजणपलांव ण सहइ सीसवेअणादिरेअदो भट्टिदारिआ ता सहिअपि सव्वं पमअवणदुवारे एव्व णिसिहेहित्ति ।
प्रथमा - ते हि तुमं तं णिओअं अणुचिट्ठ, अहं पि सज्जीकअं धाराघरअं भट्टिदारिआए णिवेदेमि |
द्वितीया - संहि तह |
( निष्क्रांते )
१. सखि एवं खलु अहं त्वमिव पुनर्निबंध्य पृच्छंति प्रियसख्या भणितास्मि कलावत्या यथा सखि कौमुदिके पूर्व खलु वसंतदोलारोहणदिने कामदेवगृहाभ्यंतरे दृष्टो भर्तृदारिकायाः भर्ता रामः । पुनश्च माधवीवने आत्मनि उत्कंठमानो दृष्टः स एवेदानीं भर्तृदारिकासंतापहेतुरिति । २ सखि युज्यते ! ३ सखि किमिदानीमावां भर्तृदारिकापार्श्वे गच्छाव अथवा चंद्रकांतधारागृहे प्रतिपालयावः । ४ एवं खल्वहं प्रियसख्या भणितास्मि विनीतया यथा सखि सुकुमारिके बहुजनप्रलाषं न सहते शीर्षवेदनातिरेकतः भर्तृदारिका तस्मात्सखिजनमपि सर्व प्रमदवनद्वारे निषेधयेति । ५ तेन हि त्वं तं नियोगमनुतिष्ठ अहमपि सज्जीकृतं धारागृहं भर्तृदारिकाया निवेदयामि । ६ सखि तथा ।