________________
तृतीयोऽङ्कः।
४५
संदेहेन संपादयामि ते समीहितमित्यवचनमेव प्रेमगर्भेण वीक्षितेन समाश्वास्य सव्याजमुत्थाय दूत्याकारावलंबनेन निरवगमम् । तयावदिदानमिवलंबितं रामचंद्रस्यैव पार्श्व गच्छामि ( परिक्रम्य ) एवं च पुनरवोचदस्मकाते भर्तृदारिका हृदयनिर्विशेषा गृहीतभावा विनीता 'पिअसहि कलावई माहविवणे खु णं भट्टिणा रामेण भट्टिदारिआ दिट्टा ता सोवि पदेसो तुए अण्णोसिदव्वोचि मण्णे सोवितहिं चेअ वट्टदि। कुदो।
जल्य खु पढमं दिण्णे अच्छीणं ऊसवो पिअजणेण ।
उक्कंठि जणं पुण सोपि पयसो विणोदेई ॥९॥ ता जाब माहविवणं गच्छेमि । (परिकामति अग्रतो विलोक्य ससंभ्रमं ) कहें एक्को विडो में उवसप्पिअ विहसिअमुहो भणाइ । जहहि ।
बिटः-अये केयं कन्यका कथं राजकन्यका । भद्रिके श्रूयतां । मुक्ताहारो नाभिं चुंबन्नयमपि न कुचकलशयोर्ययोर्लभतेऽन्तरं । नालं भारं सोढुं मध्यः सुतनु तनुरपि तव तयोः सकुंकुमपंकयोः तद्यावत्त्वां याचे लीलानिहितपदमनतिमुखरक्वणन्मणिनूपुरं मुक्तायासं मंद मंदं श्रुतिसुभगरणितरशनं प्रयाहि नितंबिनी ( इति सलजं असौ स्तनसंन्यस्तहस्ता अपक्रम्य विलोक्य च ) अये अयमग्रतो वेशवाटः । इह हि ।
प्रौढांगनारुचिरकंठघनांगरागः कस्तूरिकापरिमलस्पृहणीयगंधः । सौभाग्यगर्वरसमंथर एव गत्या चेतः प्रलोभयति नस्तरुणो नभस्वान् ॥ १० ॥
१. प्रियसखी कलावती माधवीक्ने खलु ननु भर्तृणा रामेण भर्तृदारिका दृष्टा तस्मात्सोपि प्रदेशस्त्वयान्वेष्टव्यः इति मन्ये सोपि तस्मिन्नेव वर्तते। कुतः । यत्र खलु प्रथमं दत्तः अक्ष्णोः उत्सवः प्रियजनेन उस्कंठितं जनं पुनः सोपि प्रदेशो विनोदयति । तस्मान्माधविवनं गच्छामि । २ कथमेको विटो मामुपहस्य विकसित मुखो भण्यते।