________________
४४
मैथिलीकल्याणे
प्रवेशकः।
( ततः प्रविशति पंढः ) पंढः- ( यथोचितं परिक्रामन् ) हंत भो विदेहेश्वरदुहितुः परां कोटिमधिरोहति मदनोन्मादः।
प्रततमखिलाः पश्यत्याशाः न किंचन पश्यति स्तिमितमसकृत्सा संधत्ते दधाति च वेपथुम् । न खलु भजते भद्रां निद्रां न च प्रतिबुध्यते स्मरति न पुनः किंचित्तं च स्मरत्यधिकस्मरा ॥ ७॥ अपि च ! व्याजुभमाणकुमुदकुड्मलकुहरचंक्रमणसंक्रांतसौरभावलिप्तमलयानिलानुलिप्तासु मंडलीकृतशरासनसंधीयमानशरशतोत्क्षेपव्यापृतमन्मथासु कौमुदीविशदासु च क्षणदासु ।
किं चंद्रातपवारणोत्सुकतया किं चंदनाच्छटा चर्चापाकरणाय किं शशिशिलानिष्पंदसेकेय॑या। किं रंभादलबीजनं व्युदसितुं किं मन्मथं वंदितुं
शप्तुं वा स्वयमेव हस्तमबलाधिकृच्छ्रमुद्यच्छति ॥ ८॥ एवं च मन्ये । “ज्वलतानेन कदाचिद्भिद्यता कालिकेन हृदयमिदं । इति किल तत्प्रतिकतु सुश्लिष्टा स्तनतटा स्तस्याः"। इत्थं च प्रतिक्षणमुपर्युपरि वर्धमानाया. मवधीरितप्रतिविधानायां मनसिजरुजायामद्य तु पुनः प्रमदवनमध्यवर्तिनि धारागृहे वर्तमाना सांद्रचंदनक्षोदचर्चितपल्लवास्तरनिस्सहविधृतशरीरा भर्तृदारिका सीता विहस्तयंतीव सखीजनोपपादितां शिशिरोपचारनियंत्रणां दीर्घमुष्णं च निश्वस्य निवेदयंतीव संतापं प्रकाशयंतीवांतर्गतं भावं किमप्युपालंभमानेव प्रार्थयमानेव च मां किंचिदिवोन्नमयंती धूलताग्रभागं पक्षाग्रग्रथितबाष्पजललवलुलितां कातरकातरमाकेकरतारकां साकूतां मन्मुख एव दृष्टिं पातितवती । अहं च गृहीतहृदयतया तत्क्षणमेव कृतं