________________
प्रथमोऽङ्कः।
विनीता-ईदो इदो भट्टिदारिआ ।
___ (परिक्रम्य निष्क्रांता सीता विनीता च ) रामः-(सोत्कंठं) कथमेकपद एव वयमवस्थांतरमारोपिताः सीतया। तया हि
विचलितमणिहारं किंचिदानम्रमध्यं क्वणितवलयमीषद्धृष्टसीमंतलेखम् । अलसनयनमर्धनस्तकर्णावतंसं.
युगपदुरसि बद्धं मन्मनश्चांजलिश्च ॥२८॥ किंच
नीवीमुच्छ्रसितां मया सह मनाक संलप्य नाभिर्हृदां दोलारोहणविश्लथां रचयितुं व्यापारयंत्या करम् ।
उत्कंपात्तरलोरुचारुचरणन्यासं व्रजंत्या तया - कामिन्या ननु कामदेवभवनात्कामाय चास्म्यर्पितः॥२९॥
(नेपथ्ये) इंदो इदो पिअवअस्सो रामः-कथमाह्वयति वयस्यः ।
(परिक्रम्य निष्क्रांतः) इति श्री भगोविंदस्वामिनः सूनुना हस्तिमल्लेन विरचिते
मैथिलीकल्याणनाम नाटके प्रथमोऽङ्कः॥ १॥
१ इत इतो भर्तृदारिके । २ इत इतः प्रियवयस्यः ।