________________
मैथिलीकल्याणे
रामः-( सस्मितं सीतां प्रति ) अयि सुंदरि । श्रुत्वैव त्वां भजति पदवीं यो दृढोत्कांठतानां दृष्ट्वा भूयो न भजति धृति यः सदा त्वामपश्यन् । इत्थं चाद्यप्रणतशिरसा प्रार्थ्यते यो भवत्या
संप्राप्य त्वं कृतिनमचिरात् कामिनं तं रमेथाः ॥ २७ ॥ विनीता- (आत्मगतं ) भावंतरगब्भिअं विअ से वअणं ण एस केवलं मम्महत्तेण वट्टइ । (निरूप्य अपवार्य) भट्टिदारिए रामक्खरलच्छिअअंगुलिमुद्दिआ इमस्स हत्थे दिस्सइ सुदं च मए आअदो मिहिलिम्हि दासरही रामोत्ति । __ सीता- (सहर्षात्मगतं )अम्हो एसो खु सो रामो जो मए सुणिज्जएव पुवं उक्कंठं जणेदि दाणिं खंडिएत्था मे उक्कंठा ।
विनीता-( अपवार्य ) भट्टिदारिए वंचिआ खु खमेह इमस्स रूवसोहग्गेण ।
(नेपथ्ये ।) इंदो इदो। विनीता-( कर्ण दत्वा ) भट्टिदारिए समासण्णो सहिअणालाओ ताव गच्छम्म ।
सीता-( रामं प्रति ) हंडाँ अम्हे दाणिं किं पुच्छेमो । रामः-पुनर्दर्शनाय । सीता-अज्ज इमे भाअदेआ ।
१ भावांतरगर्भितमिवास्य वचनं न एष केवलं मन्मथत्वेन वर्तते । २ भर्तृदारिके रामाक्षरलांछितांगुलिमुद्रिकास्य हस्ते दृश्यते श्रुतं च मयागतो मिथिलायां दाशरथी राम इति । ३ अहो एष खलु स रामो यो मया शृण्वन्नेव पूर्वमुत्कंठां जनयति इदानी खंडितार्था मे उत्कंठा । ४ भर्तृदारिके वंचिता खलु क्षमस्वास्य रूपसौभाग्येन । ५ इत इतः। ६ भर्तृदारिके समासन्नः सखिजनालापः तावद्गच्छामः । ७ सखि वयमिदानी किं पृच्छामः । ८ आर्य इमानि भागधेयानि ।