________________
* श्री सर्वज्ञवीतरागाय नमः ॐ
शास्त्र स्वाध्याय का प्रारम्भिक मंगलाचरण
ओंकारं बिन्दुसंयुक्त नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैय ॐकाराय नमोनमः ॥१॥ अविरल शब्दघनौघप्रक्षालितसकल मूतलकलंका | मुनिभिरुपासिततीर्था सरस्वती हरतु नो दुरितं ॥२॥ अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥३॥
॥ श्रीपरम गुरवे नमः, परम्पराचार्य गुरवे नमः, सकलकलुषविध्वंसकं श्रेयस परिवर्धक, धर्मसंबंधक, भव्यजीवमनः प्रतिबोषकारकं पुण्यप्रकाशक, पापप्रणाशकमिदं शास्त्रं श्री मरणकंडिका नामधेयं श्रस्य मूलग्रंथकर्तारः श्रीसर्वज्ञदेवास्सयुस र ग्रंथकर्त्तारः श्रीगणधरदेवाः प्रतिगणधर वेवास्तेषां वचनानुसारमासाद्य श्राचार्य प्रमितगति देवविरचितं श्रोतार : सावधानतया श्रृण्वन्तु ||
मंगलं भगवान वीरो मंगलं गौतमो गणी । मंगलं कुन्दकुन्दार्यो जैनधर्मोऽस्तु मंगलम् ॥१॥
सर्व मंगल मांगल्यं
सर्वकल्याणकारक 1
प्रधानं सर्वधर्माणां जैनं जयतु शासनम् ॥२॥
*