________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९२
भट्टानन्तकीर्तिप्रणीता
भावादात्मीयबुद्धिसम्भूतः स्नेहो न गुणदर्शननिमित्त इत्यवसीयते तत एव । नाप्यात्मीयबुद्धेर्गुणदर्शनं कारणं यतो दोषदर्शनादात्मीयबुद्धिनिबंधनस्य गुणदर्शनस्य व्यावृत्तेः आत्मीयबुद्धिविगमात्तन्निबंधनस्यात्मीयस्नेहस्य व्यावृत्तिः स्यादिति तदप्ययुक्तं । न हि संयोगसंबंधेषु सौरूप्यादिगुणदर्शनात् स्नेहो जायते इत्युच्यते किं तूपभोगाश्रयत्वाख्यगुणदर्शनात् । तथाच किं न स्वसंबंधेषु भावेषु जातिजरामरणप्रबंधलक्षणसंसारदुःखहेतुत्वाख्यमात्यंतिकदोषं पश्यतो नोपभोगाश्रयत्वाख्यस्य गुणस्य दर्शनमस्तीति तन्निबंधनस्य स्नेहस्य व्यावृत्तेः कथं दोषदर्शनं स्नेहस्य बाधकं न स्यात् ॥ यदुक्तं यावदात्मस्नेहोऽविकलस्तावदात्मसुखसाधनेष्वात्मीयबुद्धिस्ततस्तेष्वात्मीयेषु स्नेहः । स चाविद्यमानानेवात्मीयेषु गुणानारोपयति । असद्गुणारोपाच्च कुतो दोषदर्शनस्यावसरोऽपीति येन तत आत्मीयस्नेहः क्षीयते इत्यत्रोक्तमस्माभिरज्ञस्य तादात्विकसुखसाधनेष्वात्मीयबुद्धिः
हो वा न हेयोपादेयतत्त्वविवेकज्ञस्य । तस्य हितेष्वात्यंतिक - दुःखहेतुत्वं पश्यतः सदा दोषदर्शनमेव न गुणदर्शनमस्वीति । यच्चापरमुक्तं यो वादी विरक्ताभिमतावस्थायामात्मनो भाग्यमात्मीयमेव नेच्छेत्तस्य भोक्ताऽप्यात्मा न विद्यते । भोग्याधिष्ठानत्वाद्भोक्तृत्वस्येति । अथ पुनस्तदानी भोक्तृत्वेनाभ्युपगमादिष्टसिद्धिरिति ब्रूयात्तर्द्धात्माऽपि तस्य
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only