SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९१ बृहत्सर्वज्ञसिद्धिः त्विकदोषस्य दर्शनाद्विरक्तस्तात्विकसुखहेतुत्वाख्यस्य तादात्विकगुणस्य दर्शनात्पुनरनुरज्यते इति युक्तं हेयोपादेयतत्त्वज्ञानजातिजरामरणप्रबंधलक्षणदुःखहेतुत्वाख्यस्यात्यंतिकदोषस्य दर्शनाद्विरक्तो न तादात्विकगुणदर्शनात्पुनरनुरज्यते किं त्वात्यंतिक गुणदर्शनात् । न च संयोगसंबंधे तदर्शनमस्तीति न पुनरनुरज्यत इति । यदि जातिजरामरणप्रबंधलक्षणस्य दुःखहेतुत्वेन संयोगसंबंधेषु भावेषु विरज्यते तदाऽऽत्मन्यपि तथाविधदुःखहेतौ विरज्येत । नोचेदन्यत्रापि न विरक्तः स्यादिति । अत्रापि तावदज्ञमात्मानमभिप्रेत्यैवमुच्यते तदा सिद्धसाध्यता । हेयहेतावात्मनि वैराग्याभ्युपगमात् । हेयोपादेयतत्त्वज्ञानं पुनरात्मनि तथाविधदुःखहेतुत्वाभावादित्यदोषः ॥ यत्पुनरुक्तं- यद्ययमात्मीयस्नहो गुणदर्शनाद्भवेत्तदा गुणदर्शनविरुद्धं दोषदर्शनमात्मीयस्नेहस्य बाधकं स्यात् । यावतोपभो. गाश्रयबुद्धिनिबंधनायाः स्वत्त्वबुद्धेरात्मीयस्नेहो भवति । न गुणदर्शनात् । बालपशुप्रभृतेरपि आत्मसंबंधचक्षुरादिगुणदोषपरीक्षाविकलस्यापि सतः स्वचक्षुरादौ स्नेहस्य भावात् । अपिचात्मीयचक्षुरादौ पिचटकाणकुंटविरूपादिदोषदर्शनेऽपि तस्यभावादन्यदीये चक्षुरादौ गुणदर्शनेऽप्यभावादात्मीयेष्वपि व्यतीतेषु स्वदेहच्युतेषु भागावयवेषु तादृशेष्वेवात्मीयबुद्धित्यागे सत्यभावात् । तस्माद्गुणदर्शनेऽप्यभावादात्मीयबुद्धिसत्वे सत्येव For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy