________________
Shri Mahavir Jain Aradhana Kendra
१०४
www.kobatirth.org
भट्टाकङ्कप्रणीतं स्वरूपसम्बोधनम्
—
Acharya Shri Kailassagarsuri Gyanmandir
मुक्तामुक्तैकरूपो यः कर्मभिः संविदादिना ॥
अक्षयं परमात्मानं ज्ञानमूर्तिं नमामि तम् ॥ १ ॥ सोsस्त्यात्मा सोपयोगोऽयं क्रमाद्धेतुफलावहः ॥ यो प्रायो ग्राह्मनाद्यन्तस्थित्युत्पत्तिव्ययात्मकः ॥ २ ॥ प्रमेयत्वादिभिर्धर्मैरचिदात्मा चिदात्मकः ॥ ज्ञानदर्शनतस्तस्माच्चेतनाचेतनात्मकः || ३ || ज्ञानाद्भिन्नो न नाभिन्नो भिन्नाभिन्नः कथंचन ॥ ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्त्तितः ॥ ४ ॥ स्वदेहप्रमितश्चायं ज्ञानमात्रोऽपि नैव सः ॥ ततः सर्वगतश्चायं विश्वव्यापी न सर्वथा ॥ ५॥ नानाज्ञानस्वभावत्वादेकोऽनेकोऽपि नैव सः ॥ चेतनैकस्वभावत्वादेकानेकात्मको भवेत् ॥ ६ ॥ न वक्तव्यः स्वरूपाद्यैर्निर्वाच्यः परभावतः || तस्मान्नैकान्ततोऽवाच्यो नापि वाचामगोचरः ॥ ७ ॥ सस्याद्विधिनिषेधात्मा स्वधर्मपरधर्मयोः || समूर्तिर्बोधमूर्तित्वादमूर्तिश्च विपर्ययात् ॥ ८ ॥ इत्याद्यनेकधर्मत्वं बन्धमोक्षौ तयोः फलम् ॥
For Private And Personal Use Only