SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ - ता, कुभल्प काव्य परिच्छेदः १२ . वेश्या धनाय नानुरागाय नरेभ्यः स्पृहयन्ति याः । तासां मृषाप्रियालापाः केवलं दुःखहेतवः ।।१।। वदन्ति मधुरा वाचः परं ध्यानं धनागमे । वण्यस्त्रीणां मनोभावं ज्ञात्वैवं भव दूरगः ।।२।। कपटप्रणयं धूर्ता दर्शयन्ती मुहुर्मुहुः । विलासिनी महावित्तमालिंगत्युरसा विटम् ॥ ___ परं तस्य समायलेषस्तथा तम्मा लगानि म: । कुविष्टिवै यथाऽज्ञातं स्पृशेत् संतमसे शवम् ।।३।।(युग्म विशुद्धकार्यसंलग्नाः सव्रताः पुरुषोत्तमाः । कलंकितं न कुर्वन्ति निजांगं वारयोषिता ।।४।। येषामगाधपाण्डित्यं बुद्धिश्चापि सुनिर्मला । रूपाजीवांगसंस्पर्शान मलिना न भवन्ति ते ।।५।। न गृह्णन्ति करं तस्या जना स्वहितकारिणः । विक्रीणाति निजं रूपं स्वैरिणी यातिचंचला ॥६11 अन्वेषयन्ति तां भुक्तामज्ञा एव पृथग् जनाः । देहेन स्वजते किन्तु रमतेऽन्यत्र तन्मनः ।।७।। येषां विमर्शशून्याधीमन्यन्ते ते हि लम्पटाः । स्वर्वध्वा इव वेश्यायाः परिष्वंग सुधामयम् ।।६।। गणिका कृतशृंगारा नूनं निरयसत्रिभा । तत्प्रणालश्च तबाहुर्यत्र मज्जन्ति कामिनः ।।६।। दुरोदरं सुरापानं बहुसक्ता नितम्बिनी । भाग्यं येषां विपर्यस्तं तेषामानन्दहेतवः ॥१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy