SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ज, कुबर काव्य र परिच्छेद: ५५ स्त्रीदासता नासो महत्त्वमाप्नोति यो नारी पादपूजकः । आर्यस्तु कुरुते नैव कार्यमीदृम्विधं मुधा ||१|| अनंगरंगकेली यः प्रसक्तो विषयातुरः । गर्हितः स समृद्धोऽपि स्वयमेव विलज्जते ।।२।। क्लीव एव नरः सोऽयं स्त्रियो यो हि वशंवदः । भद्रेषु लज्जितो भूत्वा नैवोद्ग्रीवः प्रयाति सः ।।३।। अहो तस्मिन् महाखेदः स्त्रियो यो हि विकम्पते । अभव्यः स च निर्भाग्य: संभाव्या नैव तद्गुणाः ।।४।। स्त्रियो विभ्रमवाणाया यो बिभेति हि कामुकः । सद्गुरूणां स सेवार्य भजते नापि साहसम् ।।५।। प्रियाया मृदुबाहुभ्यां ये बिभ्यति हि कामुकाः । लब्धवर्णा न ते सन्ति भूत्वापि सुरसन्निभाः ।।६।। प्रभुत्वं चोलराज्यस्य येन स्वस्मिनुपासितम् । कन्यायां हीविशिष्टायां ततोऽस्त्यथिकगौरवम् ।।७।। एषां सर्वत्रकान्तायाः प्रमाणां वाक्यमेव ते । मित्राणामिष्टसिद्ध्यर्थं न शक्ता वा सुकर्मणे ।।८।। नो लभन्ते धनं धर्म कामिनीराज्यशासिताः । प्रेमामृतरसस्वादे नापि ते भाग्यशालिनः ।।६।। उच्चकार्येषु संलग्नाः सौभाग्येनाभिवर्द्धिताः । ते दुर्बुद्धिं न कुर्वन्ति विषयासक्तिनामिकाम् ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy