SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ - कुषत्व काश्य पर परिच्छेदः ९० महतामवज्ञात्यागः यो वांछति निजं श्रेयः स साथोरपमानतः । आत्मानं सततं रक्षेन् महायत्नेन शुद्धधीः ।।११ यः करिष्यति मूढात्मा न्यक्कारं हि महात्मनाम् । पतन्ति मूनि तच्छक्त्या विपदो वीतसंख्यकाः ।।२।। अनादृत्य हितान् गच्छ सर्वनाशं यदीच्छसि । विरोधी भव तेषांच यच्छक्तिः सर्वनाशिनी ॥३॥ सबल शक्तिसम्पन्नं योऽवजानाति रोषतः । स स्वजीवनगताय मृत्युमास्यते कुधीः ।।४।। बलिनां भूपतीनांच क्रोधं संवर्थयन्नरः । पृथिव्यां क्वापि गत्वापि सुखवान् नैव जायते ।।५।। दहनादपि संरक्षा कदाचित् संभवत्यहो । अरक्ष्याः सर्वथा किन्तु मन्ये साध्ववहेलिनः ।।६।। आत्मशक्तौ महाशूराः क्रुद्धा यदि महर्षयः ।। कुतो हि जीवनानन्दः का सिद्धिश्च समृद्धिषु ।।७11 विशालं दृढमूलंच राज्यं यस्य स भूमिपः । उच्छियते यतेः क्रोधाद् ऋषयो हाद्रिसत्रिभाः ।।८।। ऋषयो व्रतसंशुद्धा यदि स्युर्वन्नदृष्टयः । .. आस्तामन्यत् स सक्रोऽपि स्वपदात् प्रच्युतो भवेत् ॥६॥ . ... आत्मशक्तेः परा देवाः क्रुद्धा यदि महर्षयः । नरस्य कुत्र रक्षास्ति श्रित्वापि बलिनो जनान् ।।१०।।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy