SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ज, कुबत्व काव्य - परिच्छेदः ४९ महोपी कुंजः पुष्करवर्षी च नूनं चेद् रोगवर्द्धको । अप्रियौ भवतस्तद्वद् बन्धुरप्यहितः परः ।।१।। तस्माद् द्विषो न भेतव्यं योऽस्ति नग्नासिसन्निभः । भेतव्यं हि ततोऽमित्रादेति यो मित्रकैतवात् ।।२।। अप्रमत्तो निजं रक्षेदन्तर्विष्टाद् रिपोः सुधीः । कर्त्यत्यवसरे शत्रुरन्यथा चक्रिसूत्रवत् ।।३।। अहितो यदि ते कश्चिन् मित्रत्वं न्यस्यते । स भेदमुपसंथाय विधास्यति विपद्गृहम् ।।४।। स्वजना यदि संक्रुद्धाः स्वयं विद्रोहभाजिनः । सन्निपाते विपत्तीनां जीवनं तर्हि यास्यति ।।५।। आस्थाने यस्य भूपस्य विद्यते कपटस्थितिः । एकदा सोऽपि तदोषात् तस्या लक्ष्यं भविष्यति ।।६।। ययोभेदस्तयोरैक्यं नैव दृष्टं महीतले । पिधानेनावृतं पात्रं भिन्नमेव स्वरूपतः ।।७।। भेदबुद्धिगुहे येषां भूमिसाद्वै भवन्ति ते । घर्षणीयंत्रसभिन्नलोहस्य कणका यथा ।।८।। पारस्परिकसंघर्षः स्वल्पोऽपि तिलसन्निभः । यत्रास्ति तत्र सर्वस्वनाशो नृत्यति मस्तके ।।६।। विद्विष्टेन समं ब्रूते प्रतिपत्तिं विनैव यः । उटजे फणिना साकं नूनं वासं करोति सः ।।१०।। . -.......
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy