________________
- कुलर काव्य ।
परिच्छेद 3
सुरापानत्यागः मद्यपाने रतिर्यस्य नास्ति तस्माद् रिपोर्भयम् । अर्जितं गौरवं तस्य तत एव विनश्यति ।।१।।
सुरापानं न कर्तव्यं केनापि हितमिच्छता ।
पिपासा यदि केषांचित् कर्तव्यं चेदनार्यता ।।२।। प्रमत्तवदनं वीक्ष: पासव जुगनमः । का कथा तर्हि भद्राणां दृष्टवा तम्य मुखाकृतिम् ।।३।।
सुरापानकदभ्यासो यस्य पुंसः कुसंगतः ।
पराड्.मुखी ततो याति सुलज्जा मत्तकाशिनी ।।४।। अतिलोकमिदं मौयं सौभाग्यध्वंसकारणम् । मूल्यं दत्त्वा यदादत्ते संमोहस्मृतिशून्यते ।।५।। . ...
विषं पिवन्ति ते नित्यं मदिरापरनामकम् ।
महानिद्राभिभूतास्ते सन्त्येव मृतसन्निभाः ।।६।। सुगृढापि सुरापीता जनयत्येव विधमान् । तेभ्योऽधिगम्य शौण्डत्वं ग्लायन्ति पार्श्ववर्तिनः ।।७।।
हालापलापं मा कुर्या मद्यपानरतोऽपि सन् ।
एवं कृते यतोऽलीकपापमन्यच्च योज्यते ।।८।। प्रमत्तस्य हिताख्यानं केवलं कालयापनम् । उल्कालोको यथा मोघो जलमग्नगवेषणे ॥६॥
मत्तस्य कुगतिं शौण्डः संपश्यति मदात्यये । जातां तामेव स्वस्यापि कथं नानुमिनोति हा ।।१०।।
93