________________
परिच्छेदः १४
द्यूतम् जये सत्यपि मा दीव्येद् द्यूतं बुद्धिविभूषितः । यतो जयोऽपि नाशाय मत्स्यार्थं वडिशो यथा 11911
शतं यत्र पराजित्य जयत्येकन्तु जातुचित् ।
स्यात्समृद्धः कथं तत्र द्यूतकारो दुरोदरे ।।२॥ प्रायो दीव्यति पाशैस्तु यः संस्थाप्य ग्लहे पणम् । अज्ञातजनहस्तेषु वैभवं तस्य गच्छति ।।३।।
द्यूतं यथा तथा नान्यः करोति मनुजं खलम् ।
कुकीर्तिर्जायते यस्मात् प्रेर्यते चाशुभे मनः ।।४।। सन्त्यनेके पटुम्मन्या मत्ताः पाशककर्माण । परमेको न तत्रास्ति यो नैवानुशयं गतः ।।५।।
दारिद्र्येणान्थता नीतो द्यूतव्यसनकैतवात् ।
अनुबोभूय दुःखानि म्रियते क्षुधयातुरः ।।६।। यस्य कालो लयं याति प्रायशो द्यूतसमनि । पैतृकैर्विभवैः साके कीर्तिस्तस्य विलुप्यते ।।७।।
द्यूतान् नश्यन्ति वित्तानि प्रामाण्यंच विलीयते ।
कठोरं जायते चित्तं द्यूतं दुःखानुबन्धनम् ।।८।। द्यूतासक्तं विमुंचन्ति कीर्तिवैदुष्यसम्पदः । । नेदमेव व्यथायुक्तो भिक्षतेऽन्नं पटेच सः ।।६।।
पराजयादहो यूते रतिर्नूनं विवर्द्धते । यावज्जीवं दहेत तृष्णा दुःखातंच पराजितम् ।।१०।। ।
94