SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ काव्य ___ परिक्तः ८७ शत्रुपरीक्षा सबलेनारिणा साकं न योद्धव्यं मनीषिणा । अविश्रभ्य क्षणं किन्तु संयुध्याशक्तवैरिणा ।। १।। यस्य निर्दयिनः केऽपि नैव सन्ति सहायकाः । अशक्तश्च स्वयं सोऽयमाक्रामति कथं रिपुम् ।।२।। प्रतिभा धैर्यमौदार्यं यत्र नास्त्रि गुणत्रयी।। प्रत्यन्तराज्यविद्वेषी सुजय्यः स महीपतिः ।।३।। जिह्म यस्य वशे नास्ति कटुर्यश्च निसर्गतः । न्यक्रियते स भूपालो सर्वैः सर्वत्र भूतले ।।४।। अदक्षो योऽस्ति कर्तव्ये स्वमानानभिरक्षकः । राजनीते रसंवेदी स नृपो रिपुमोददः ।।५।। किंकरो यस्तु लिप्सानां चण्डो वा बुद्धिवर्जितः । सपत्नास्तस्य भूपस्य वैरार्थं स्वागतोधताः ।।६।। कार्य प्रारभ्य पश्चाद् यो वैफल्याय विचेष्टते । मूल्यं दत्त्वापि तद्वैरं गृहणीयाद् हितवान्नरः ।।७।। नैकोऽपि सद्गुणो यत्र दोषाणां किन्तु राशयः । तस्य मित्रं न कोऽपि स्यादमित्रानन्दवर्षिणः ।।६।। बालिशैः कातरैः साकं यदि युध्यन्ति शत्रवः । तदा भवति तेषां तु प्रवृद्रो हर्षसागरः ।।६।। पार्श्वस्थ राजभिमूढः सार्थ यो नैव युध्यति । जयाय यत्नहीनश्च म राजा नो प्रतिष्टितः ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy