________________
Tी, कुबन काव्य पर
परिचलेदः
उद्धतता औन्द्रत्येन परेषान्तु परिहासं करोति यः ।। अनेन दुर्गुणेनैव सोऽस्ति लोके घृणावहः ।।१।।
पार्श्ववासी यदि ज्ञात्वा कदाचित् कलहेच्छया ।
त्वां बाधते तथापीदं वरं त्रासादवैरिता ।।२।। कलहस्य चिराभ्यासो महाव्याधिरहो खले । लभन्ते तेन निर्मुक्ताः प्रतिष्ठामन्तवर्जिताम् ।।३।।
___ भण्डवृत्तिं महागाँ मुंचतः खलु दूरतः ।
हृदये परमास्लादो जायते वै निसर्गतः ।।४।। विद्वेषभावनां चित्ताद् योहि दूराद् व्यपोहति । मर्वपियः स लोके स्यात् प्रकृत्या चारुतां गतः ।।५।।
हृदयं लादते यस्य विद्वेषे प्रतिवासिनः ।
तस्याधःपतन शीघ्रममन्दंच भविष्यति ।।६।। मात्सर्याद यश्च भूपालो सर्वैः साकं विरुध्यते । कलहे तस्य लिप्तस्य राज्यवृद्धिः कथं भवेत् ।।७।।
विग्रहस्य विधेस्त्यागाद् वैभवं वर्द्धते सदा ।
तस्य संवर्द्धनात् किन्तु व्यद्धिरेवाभिवर्द्धते ।।८।। मविशं जहात्येव नरः पुण्यस्य वैभवात् । अथ पापात् म एवाहो विद्वेष्टी प्रतिवेशिनम् ।।६।।
विद्वेषस्य फलं लोके विद्वेषो ह्यस्ति नापरः । भवतः शिष्टवृत्तौ च शान्तिरेवं समन्वयः ।।१०।।