________________
कुरल काव्य
परिच्छेदः ८४ मूर्खता
किमिति जिज्ञासो श्रृणु तर्हि वदामि तत् । लाभहेतोः परित्यागो ग्रहणं हानिकारिणाम् ।।१।।
अयोग्येऽथ विनिन्द्ये च प्रवृत्तित॑नु॒ कर्मणि । प्रथमा मूढता ज्ञेया तस्याः सर्वासु कोटिषु || २ || भूख विस्मृत्य कर्तव्यमसभ्यं भाषते वचः । धर्मो न रोचते तस्मै ह्रीदयाभ्यां स वर्ज्यते ||३||
शिक्षितोऽपि सुदक्षोऽपि गुरुत्वे सुस्थितोऽपि सन् । लम्पटो योऽक्ष जाताना को मूढस्तादृशी भुवि || ४ || अहो स्वयं समाख्याति पूर्वमेव स्वजीवने । श्वभ्रस्य विवरे तुच्छे स्वस्थानं खलु मूढधीः ।।५।। उच्चकार्यं समादत्ते यो मूढो निजहस्तयोः । स परं नैव तत्राशी बन्दी भवति च स्वयम् || ६ |
मूर्खोपार्जितवित्तेन भवन्ति सुखिनः परे । आत्मीयाः किन्तु दुःखार्ताः त्रस्यन्ति क्षुधयातुराः ।।७।।
बहुमूल्यं यदा वस्तु दैवादज्ञेन लभ्यते । उन्मत्तसदृशो भूत्वा तदा सोऽयं कुचेष्टते ||८||
मैत्री भवति मूर्खाणां सुप्रिया ननु सर्वदा । यतो विघटने तस्याः सन्तापो नैव जायते ॥६॥ अविदग्धस्तथा नैव शोभते बुधमण्डले । दुग्धोज्ज्वले हि पर्यके यथैव मलिनं पदम् ||१०||
84