SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ जो कुचल काव्य र घाटाः ४.३ कपटमैत्री मैत्रीप्रदर्शनं शत्रोः केवलं स्थाणुयोजना । समये त्वापि यत्रासौ ताडयेद्धातुसन्निभम् ।।१।। हृदये यस्य दुर्भावो बाह्ये यश्च सखीयते । कामिन्या इव तच्चित्तं क्षणेनैति विरागताम् ।।२।। वरमस्तु महाज्ञानं विशुद्धिर्वापि मानवे । शत्रोश्चित्ते तथापीह घृणात्यागोऽस्त्यसंभवः ।।३।। बहिर्हष्यति यो मायी द्वेष्टि चान्तर्दुराशयः । भीतो भव ततो धूर्ताद् यदि प्राणानपेक्षसे ।।४।। त्वयामा ह्रदयं येषां विद्यते नैव सर्वथा । विश्वासरतेषु नो कार्यो वदत्स्वपि प्रियं वचः ।।५।। अहो नूनं क्षणेनैव परिपन्थी प्रकाशते । सखेव मधुरालापं कुर्वत्रपि मुहुर्मुहुः ।।६।। प्रव्होऽपि च रिपु व विश्वास्यो दीर्घदर्शिना । धनुषो हि विनम्रत्वमनिष्टस्यैव सूचकम् ॥७।। कृतांजली रुदॆश्चापि प्रत्येतव्यो न वैरकृत् । शस्त्रं संभाव्यते तस्य निगूढं करमध्यके ।।८।। बाह्ये नौति विविक्ते च घृणार्थ हसति ध्रुवम् । बहिः संस्तुत्य तं काले मर्दयेन्मित्रतां गतम् ॥६॥ संथित्सुः खल्वरातिश्वेदशक्तश्च स्वयं बले । सन्धिस्तेन समं कार्यः कृत्वा च भव दूरगः ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy