________________
-
कुबल काव्य और परिच्छन्दः ८२
विघातिका मैत्री विघातिनी तयोमैत्री यौ प्रदर्शयतो बहिः । सख्यं किन्तु ययोः किंचिद् वर्तते नैव मानसे ।। १।।
पतन्ति पदयोः स्वार्थात् स्वार्थाभावाच्च दूरगाः ।
ये धूर्तास्ते हि हातव्यास्तत्सख्येनापि को गुणः।।२।। अस्मात् सख्युरियाँल्लाभः स्यादित्येवं विचारयन् । नरो भवति चौराणां वेश्यानांच कुपंक्तिषु ।।३।।
पलायते यथा युद्धात् पातयित्वाश्ववारकम् ।
कुत्स्यसप्तिस्तथा मायी का सिद्धिस्तस्य सख्यतः।।४।। विश्वस्तं सुहृदं काले मुंचता सह मायिना । सख्यस्थापनमश्रेयः श्रेयान् ननु विपर्ययः ।।५।।
प्राज्ञैः समं विरोधोऽपि वरं मूढस्य संगते ।
सादृश्याय यतो नूनं वर्द्धन्ते गुणराशयः ।।६।। स्वार्थिनां चाटुकर्तृणां सौहार्दाद् वैरिणामहः । असह्यापि घृणा साध्वी शतगुण्या मता बुधै. ।।७।।
तव पाणीकृते कार्य योऽस्ति बाधाविधायकः ।
किंचितं प्रति मा ब्रूहि मैत्री मुंच शनैः शनैः ।।८।। । अन्यदेव खलु ब्रूते कुरुते चान्यदेव यः । स्वप्नेऽप्यशुभरूपास्ति तेनामा सख्यकल्पना ।।६।।
एकान्त स्तौति यो नित्यं बहिर्निन्वति दुष्टधीः । वृत्तिरेवंविधा यस्य स ह्युपेक्ष्यो विमर्शिना ।।१०।।
82