________________
जी कुवल काव्य पर परिच्छेदः ४१
धनिष्टॉमत्रता घनिष्टमित्रता सैव तयोरस्त्यनुरूपयोः । यत्रात्मा प्रीतिपात्राय यथाकामं समर्प्यते ।। १।।
सत्यरूपात तयोमैत्री वर्तते विज्ञसम्मता।
स्वाश्रिती यत्र पक्षौ द्वौ भवतो नापि बाधकौ ।।२।। यदि नास्ति वयस्यस्य स्वातन्त्र्यं मित्रवस्तुनि । सौहार्देनापि किं तेन क्रियाविकलरूपिणा ।।३।।
प्रगाढमित्रयोरेकः किमप्यनुमति विना ।
कुरुते चेद् द्वितीयोऽपि सख्यमाध्याय हृष्यति ।।४।। | मित्रकृत्येन केनापि यदि ते दूयते मनः । तस्यार्थः सख्युरज्ञानं किं वा वामेकतानता ।।५।।
अभिन्नहृदयं मित्रं सुसखो नैव मुंचति ।
वरमस्तु विनाशस्य हेतुरेव तदाश्रयः ।।६।। येन साकं घिरस्नेहो यश्चासीत् सुप्रियो हृदि ।। कुर्वन्नपि व्यलीकानि स प्रियो न घृणास्पदम् ।।७।।
मित्रं नैव सुमित्रस्य सहते दोषकीर्तनम् ।
निन्दको दण्ड्यते यस्मिन् तदहस्तस्य तोषदम् ।।६।। अन्तर्हिमालयाद्यस्य प्रेमगंगा परान् प्रति । वहत्यखण्डधारायां भूप्रियः सोऽपि जायते ।।६।।
यस्य स्नेहो न शैथिल्यं याति मित्रे चिरन्तने । तस्मै मानवरत्नाय स्निह्यन्ति रिपवोऽप्यलम् ।।१०।। .
81)
---