SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः ८० सख्यार्थ योग्यतापरीक्षा अपरीक्ष्यैव मैत्री चेत् कः प्रमादो ह्यतः परः । भद्राः प्रीतिं विधायादौ न तां मुंचति कर्हिचित् ||१|| अज्ञातकुलशीलानां मैत्री संकटसंहतिः । सति प्राणक्षये यस्याः शान्तिर्भवति पूर्णतः || २ || कथं शीलं कुल किं कः सम्बन्धः का च योग्यता । इति सर्व विचार्यैव कर्तव्यो मित्रसंग्रहः ||३|| प्रसूतिर्यस्य सद्वंशे कुकीर्तेश्च विभेति यः । मूल्यं दत्त्वापि तेनामा कर्तव्या खलु मित्रता ||४|| अन्विष्यापि समं तेन मैत्री कार्या विपश्चिता । सुमार्गाच्चलितं मित्रं यो भर्त्सयति नीतिवित् ।। ५ ।। विपत्स्वपि महानेकः सुगुणः सर्वसम्मतः । यदापन्मानदण्डेन ज्ञायते मित्रसंस्थितिः || ६ || अस्मिन्नेवास्ति कल्याणं नराणां सौख्यवर्द्धनम् । यन्मूर्खस्य सदा या मैत्री दुर्गतिकारिणी ॥ ७ ॥ ॥ औदासीन्यनिरुत्साहभृता हेया विचारकाः । बन्धुता सापि हातव्या विपत्तौ या पराडू. मुखी ||८|| सम्पत्ती सह संवृद्धा विपत्तौ ये च मायिनः । मैत्रीस्मृतिर्हि तेषान्नु मृत्युकाले ऽपि दाहदा || ६ 11 विशुद्धहृदयैरायैः सह मैत्रीं विधेहि वै । उपयाचितदानेन मुंचस्वानार्यमित्रताम् ||१०|| 80
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy