SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ - कुल काव्य - परिस: १७४ वीरयोदुरात्मगौरवम् रे रे सपत्नसंघात मा तिष्ठ स्वामिनः पुरः । स योद्धं ये: पुराहूतः साम्प्रत तं चिताश्मसु ।।१।। कुन्ताघातो गजे मोघोऽप्यस्ति गौ खदायकः । शशे किन्तु शराघातो सफलोऽपि न मानदः ।।२।। नूनं तदेव वीरत्वं येन ह्यानम्यते रिपुः । शरणागतवात्सल्य रूपञ्चास्त्यस्य सुन्दरम् ।।३॥ स्वकुन्तं करिदेहान्तः प्रवेश्यान्यं गवेषयन् । निष्कासयँश्च गात्रस्थं स्मयते स भटाग्रणीः ।।४।। रिपुप्रासप्रहाराच्चेज्जातं नेत्रनिमीलनम् । तर्हि ख्यातस्य वीरस्य का लज्जा स्यादतः परा ।।५।। न पश्यन्ति यदा शूराः स्वांगमालीढशोभितम् । तदा दिनानि मन्यन्ते व्यानि क्षीणचेतसः ।।६।। प्राणेषु त्यक्तमोहः सन् कीर्ति लोकान्तसंश्रिताम् । ईप्सते यस्तदंघ्रिस्थो निगडोऽपि सुशोभते ।।७।। यस्य नास्ति भयं मृत्योर्युद्धे स सुभटोत्तमः । आतंकादपि सेनान्यो भटनीतिं न मुञ्चति ।।८॥ अभीष्टकार्यसिद्ध्यर्थं वीरा उद्योगशालिनः । यदि प्राणैवियुक्तः स्युस्तर्हि के दोषवादिनः ।।६।। यं समीक्ष्य भवेत् स्वामी वाष्पपूर्णाकुलेक्षणः ।। भिक्षया चाटुकारैश्च तं मृत्यु प्रार्जयेद् भटः ।। १०११
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy