SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ कुल काव्य परिच्छेदः ७६ धनोपार्जनम् तुच्छोऽपि गुरुता हि विविचापविशुः धनेन मनुजो ह्येवं शक्तिः क्वान्यत्र दृश्यते ॥19॥ निर्धनानां हि सर्वत्र न्यक्कारः खलु जायते । धनिकानाञ्च सर्वत्र प्रतिपत्तिर्विवर्द्धते || २ || अविश्रान्तमहज्ज्योतिरहो वित्तं हि भूतले । स्थानं तमोवृतं येन ज्योत्स्नापूर्णं विधीयते || ३ || निर्दोषैः पापशून्यैर्यत् साधनैः प्राप्यते वसु । ततो वहन्ति स्रोतांसि सुखस्य सुकृतस्य च || ४ || यधनं दयया रिक्तं प्रेमशून्यञ्च विद्यते । तज्जिघृक्षा न कर्तव्या स्पर्शो वा तस्य नो वरः || ५१ दण्डद्रव्यं मृतद्रव्यं करस्वं शुल्कजं धनम् । युद्धद्रव्यञ्च भूपस्य कोषसंवृद्धिहेतवः || ६ || अनुकम्पा हि भूतानां विद्यते प्रेमसंततिः । तत्पालनाय धान्येषा सम्पत्तिः करुणाभृता ॥७।। गिरिश्रृंगाद् यथा निर्भीः प्रेक्षते करिणो रणम् । तथा कार्यं समारभ्य शंकां नाप्नोति वित्तवान् ||८|| यदीच्छसि रिपुं जेतुं कर्तव्यस्तर्हि संग्रहः । द्रविणस्य यतोऽमोघं शस्त्रमेतज्जयैषिणाम् ||६|| येन स्वपौरुषात् पुंसा सञ्चितं हि महाधनम् । करमध्ये स्थितौ तस्य धर्मकामावुभावपि ।।१०।। 76
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy