SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिवछेदः ०५ दुर्ग: उपकर्ता यथा दुर्गा निर्बलानां स्वरक्षिणाम् । सबलानां तथैवैष नास्ति न्यूनः सहायकृत् ||१|| वनदुर्गे गिरेर्दुर्गा मरुदुर्गोऽथ वारिणः । दुर्गः प्राकारदुर्गश्च सन्ति दुर्गा अनेकथा || २ || दाढर्यमुत्मेथविष्कम्भावजय्यत्वञ्च सर्वतः । दुर्गाणां हि विनिर्माण नूनमावश्यका गुणाः ||३|| यो दाढये किंचिदूनोऽपि शत्रूणां मदभंजकः । पर्याप्तो यत्र विस्तारो स दुर्गः प्रवरो मतः || ४ || दुर्गसैनिकरक्षायाः प्रबन्धो वस्तुसंग्रहः । अजय्यत्वञ्च दुर्गस्य सन्ति ह्यावश्यका गुणाः || ५ | आवश्यकपदार्थानां यत्र पर्याप्तसंग्रहः । रक्षितो यो हि वीरैश्च स दुर्गा दुर्ग उच्यते ॥ ६ ॥ चिरानुबन्धावरकन्दसुरंगाभिश्च यं रिपुः । विजेतुं नैव शक्नोति स दुर्गे दुर्ग उच्यते ||७|| विजयाय कृतोद्योगान् परिवारकसैनिकान् । अपि जेतुं क्षमो यश्च सैव दुर्गेऽस्त्यसंशयम् ||८ ॥ सैव दुर्गोऽस्ति यच्छक्तस्तवस्था रक्षका भटाः । दूरादेव बहि: सीनो घातयन्ति स्ववैरिणः ||६|| पूर्णसाधनसम्पन्नः सुदुर्गोऽपि निरर्थकः । यदि प्रमादिनः सन्ति रक्षकाः स्फूर्तिविच्युताः ||१०|| 75
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy