SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः ७४ देशः देशेषु स महान् देशो यत्र सन्ति महर्षयः । धार्मिका धनिकाश्चापि कृषिर्नित्यं समृद्धिभाक् ।।१।। स एवास्ति महान् देशो यो द्रव्यैलोककर्षकः । प्रचुरा च कृषियंत्र स्वास्थ्यं पूर्णनिरामयम् ||२|| समृद्धं पश्य तं देशं सहते यो बहूनपि । उत्साहेन रिपोर्वारान् काले च करदायकः || ३॥ यस्मिन् देशे न दुर्भिक्षं न वा मारी च दृश्यते । समन्ताद् रक्षितो यश्च स याति महनीयताम् ||४।। महान् स एव देशो न विभक्तो विपक्षिषु । देशविद्रोहिणः कृत्या न च स्युर्यत्रमण्डले ||५|| न जातः शत्रुयानेन लुप्तश्रीर्यो हि जातुचित् । जातो ऽप्ययायपूर्णो यः स देशो रत्नसन्निभः ।। ६ ।। भूमिवारि नदीवारि नभोवारि महीधरः । सुदृढो दुर्गवर्गश्च देशस्यावश्यका इमे ||७|| समृद्धिरुर्वराभूमिरारोग्यं सुखशालिता । रिपुभ्यश्च परित्राणां देशभूषणपञ्चकम् ||८|| सहजा जीविकोपाया यस्मिन् सन्ति स वस्तुतः । देशोऽस्ति तत्पुरोऽन्ये तु समकक्षा भवन्ति नो || ६ || तावन्न राजते देशो युक्तोऽपि बहुभिर्गुणैः । यावत् तत्र न सौराज्यं प्रजानां परिपालकम् ।।१०।। 74
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy