SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ जा कुबल काव्य पर परिच्छेदः 1.3 सभायां प्रौढता वाक्कला शिक्षिता येन सुरुच्या च समन्विता । स वाग्ग्मी विदुषामग्रे मुब्रवीति च्युति बिना ।। १।। . सिद्धान्तदृढता यस्य राजते विज्ञसंसदि । स प्राज्ञो विदुषां मध्ये समाम्नातो विदाम्बरैः ।।२।। सन्ति शूरा महेष्वासा बहवो रणकोविदाः । विरलाः किन्तु वक्तारः सभायां लब्धकीर्तयः ॥३॥ यदुपात्तं स्वयं ज्ञानं तद्विद्वत्सु प्रकाश्यताम् । अनुपात्तमथज्ञानं विज्ञेभ्यः साधु शिक्ष्यताम् ।।४।। अधीष्वसाधुरीत्या त्वं तर्कशास्त्रमसंशयम् । न विभेति हि तर्कज्ञो भाषितुं लोकसंसदि ।।५।। कोऽर्थस्तस्य कृपाणेन शक्तिर्यस्य न विद्यते । किं वा शास्त्रेण भीतस्य तिष्ठतो विदुषां पुरः ।।६।। श्रोतृणां पुरतो ज्ञानं विभ्यतो न हि राजते । रणक्षेत्रे यथा खंगो क्लीबहस्ते न शोभते ।।७।। विद्वद्गोष्ठ्ययां निजज्ञानं यो हि व्याख्यातुमक्षमः । तस्य निस्मास्तां याति पाण्डित्यं सर्वतोमुखम् ।।८।। सन्ति ये ज्ञानिनः किन्तु स्थातुं शास्त्रविदां पुरः । न शक्नुवन्ति ते नृनमज्ञेभ्योऽपि घृणावहाः ।।६।। सध्यानां पुरो यातु ये भवन्ति भयान्विताः । सिद्धान्तवर्णनाशक्तस्ते श्वसन्तो मृताधिकाः ।।१०।। - - - ...................... ....-.-- 73
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy