________________
कुरल काव्य
परिच्छेदः ७२ श्रोतॄणां निर्णयः
चित्ते सुरुचिसम्पन्नो बाक्कलायां विशारदः । श्रोतृभावं विदित्वादावनुरूपं वदेद् वचः ||१||
भो भोः शब्दार्थवत्तारः शास्तारः पुण्यमानसाः । श्रोणीहून भारतीम् ||२||
श्रोतॄणां प्रकृतिं वेत्तुं यस्य नैवास्ति पाटवम् । वक्तृकलानभिज्ञः स निष्कर्मा चान्यकर्मसु || ३ ||
ज्ञानचर्चा तु कर्तव्या विदुषामेव संसदि । मौर्ये च दुष्टिमाथाय वक्तव्यं मूर्खमण्डले ||४||
त्यज्यते येन नेतृत्वकामना मान्यसंसदि । सं गुणेष्वस्ति विख्यातो धन्यो वचनसंयमः ||५||
यस्यास्ति नैव सामर्थ्यं साफल्यंचापि भाषणे । न विभाति बुधाग्रे स धर्मभ्रष्टो नरो यथा ||६|| लोकातिशायिपाण्डित्यं विदुषां पूर्णवैभवैः । उद्योतते सभामध्ये विदुषामेव रागिणाम् ||७||
धीमतां ननु सान्निध्ये विदुषो ज्ञानकीर्तनम् । जीविते तरुसंघाते भाति नीरनिषेकवत् ||८||
व्याख्यानेन यशोलिप्सो श्रुत्वेदं स्ववधार्यताम् । विस्मृत्याग्रे न वक्तव्यं व्याख्यानं हतचेतसाम् ||६||
विरुद्धानां पुरस्तात्तु भाषाणं विद्यते तथा । मालिन्यदूषिते देशे यथा पीयूषपातनम् ||१०||