________________
ना कुमरन काय पर
परिच्छेदः १७
मुखाकृत्याभावपरीक्षणम् उक्तेः पूर्वं विजानाति मनोभावं परस्यः यः । से मेधावी सलां वन्यो वर्तते भूविशेषकः ।।१।।
मनोगतं हि यो भावं बुद्ध्या समधिगच्छति ।
न स साधारणः किन्तु वर्तते भुवि देवता ।।२।। आकृतिं वीक्ष्य यः प्राज्ञः परभावं समूहते । प्रीत्या केनापि यत्नेन मन्त्रदः स विधीयताम् ।।३।।
उक्तं वेत्ति नरः कश्चिदनुक्तञ्चाप्यतुच्छधीः ।
आकृती सति साम्येऽति श्रेण्यां भिन्नस्थितिस्तयोः ।।४।। सकृदेव नरं दृष्ट्वा भावं मानससंस्थितम् । बोद्धुं यदक्षमं चक्षुर्वृथा ज्ञानेन्द्रियेषु तत् ।।५।।
भिन्नवर्णसमायोग व्यनक्ति स्फटिको यथा ।
तथैव सर्वलोकानां वक्त्रं वक्ति हि मानसम् ।।६।। भावपूर्णमुखं त्यक्त्वा श्रेष्ठमन्यन्न वस्तुकम् । मुखं हि सर्वतः पूर्वं हर्षाम! व्यनक्ति नुः ।।७।।
यदि प्राप्तो भवेत्पुण्याद् बिना शब्देन भाववित् ।
तदक्षिसन्निकर्षोऽपि जायते ननु सिद्धिदः ।।८।। आकृतादिपरिज्ञानकुत्तमं यदि वर्तते ।। एकेन तर्हि बुध्येते रागरोषौ हि चक्षुषा ।।६।।
धूर्ता भद्रतराश्चापि सन्ति ये वसुधातले । तदृष्टिरेव सर्वत्र तेषां भावस्य सूचिका ।।१०।।
-
1