SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ - जा, कुरम काव्य परिच्छेद: ६९ राजदूतः लोकपूज्ये कुले जन्म हृदयं करुणामयम् । नृपाणां मोददातृत्वं राजदूतगुणा इमे ।।१।। निसर्गात् प्रेमवृत्तित्वं वाग्ग्मित्वं विस्मयावहम् । प्रतिभावत्त्वञ्च दूतानां यो ह्यावश्यका गुणाः ।।२।। !! स्वामिलाभाय येनात्तो भारो भूपतिमण्डले । आवश्यकं हि तवाण्यां पाण्डित्यं सर्वतोऽधिकम् ।।३।। प्रभावजननी यस्य मुखमुद्रास्ति पश्यताम् । विद्याविभूषितो यश्च स दूतार्हो महीभुजाम् ।।४।। संक्षेपभाषाणं वाण्यां माधुर्यं कट्वभाषणम् ।। सुदूताः साधनैरेतैः कुर्वन्ति स्वामिनो हितम् ।।५।। प्रभावोत्पादिका वाणी वैदुष्यं समयज्ञता । प्रत्युत्पत्रमतित्वञ्च दूतस्य प्रथमे गुणाः ।।६।। स्थानावसरकर्त्तव्यबोधे यस्यातिपाटवम् ।। आलोचितोक्तशब्दो यः स दूतो दूत उच्यते ।।७।। निसर्गहृदयग्राही विशुद्धात्मा सदाशयः । दृढाश्च यस्य मंकल्पास्तं दृत्ये खलु योजयेत् ।।८।। आवेशादिप न ब्रूते दुर्वाक्यं यो विचक्षणः । परराष्ट्रे स एवास्ति योग्यः शासनहारकः ।।६।। च्यवन्ते नैव कर्तव्यात प्राणैः कण्टगतैरपि । सुदूतः पूर्णयत्नेन सानोति स्वामिनो हितम् 41१०11
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy