SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः ६८ कार्यसंचालनम् क्रियते हि परामर्शो निश्वयार्थ विचक्षणैः । निश्वये च पुनर्जाते निस्सारं कालयापनम् ||9|| अविलम्बसह कार्यमाशु कुर्वीत धीधनः । चिरभावि च यत्कार्य तत् कुर्याच्छान्तिमास्थितः || २ || लक्ष्येणैव हि गन्तव्यं स्थितिश्चेदनुकूलिनी । वामाथ तर्हि गन्तव्यं स्वल्पबाधामये पथि || ३ || कार्य सामिकृतं शत्रुर्नास्ति यश्व पराजितः । समये वृद्धिमापन्त्री शेषाग्निरिव दुःखदी ||४|| क्षेत्रं साधनसम्पत्तिं द्रव्यं भावंच कालवत् । पूर्वं विचार्य पश्चाच्च कार्यं कुर्वीत कोविदः || ५ || अत्र कार्ये कियाँल्लाभः श्रमश्वापि कियान । बाधाश्चापि कियत्यः स्युरिति पूर्वं विचिन्तयत् ॥६॥ कार्यसिद्धेरसी मार्गो विद्वदिः परिनिश्चितः । यद् रहस्यविदं प्राप्य तद्रहस्यं समर्जयेत् ||9|| वने हि वशितां याति गजेनैव गजो यथा । कार्यक्षेत्रे तथा धीमान् कार्यं कार्येण साधयेत् ॥८॥ मित्रोपहारदानादप्यथिकेयं शुभक्रिया । यद् द्रुतं हि विधातव्या रिपूणां सांत्वनक्रिया ||६|| दुर्बलाय हिता नैव संकटेषु चिरस्थितिः । अतो बलवता साकं काले सन्धिं समर्जयेत् ||१०|| 68
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy