SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ज, कुबल काव्य - परिच्छेदः ६७ स्वभावनिर्णयः मनोबलात् किमन्यत्र महत्त्वं यशसां चये । इतरेषां यतो नास्ति तत्राल्पापि किलांशता ।।१।। विनिश्चयाय कार्याणां विदुषां निर्णयद्वयम् । पूर्णदाढय निजोद्देशेऽशक्यस्याथविमोचनम् ।।२।। न व्यनक्ति निजोद्देशं सिद्धेः पूर्व सुकर्मटः । अलंध्या अन्यथा पुंसो जायन्ते विपदां चयाः ।।३।। कथनं सुलभं लोके यस्य कस्यापि वस्तुनः । यथापद्धति हस्तेन करणं किन्तु दुर्लभम् ।।४।। विधानादुच्चकार्याणां सन्ति ये कीर्तिशालिनः । सेवन्ते तान् नृपा नत्वा श्लाघन्ते च जनाः सदा ।।५।। पुमाँश्चेत् सत्यसंकल्पः पूर्णशक्त्या च संभृतः । तदेव लभ्यते तर्हि यथा यत्तेन काम्यते ।।६।। आकृत्यैव नरः कोऽपि नैष्कर्म्यं नाधिगच्छति । स एव दृश्यते काले कार्याधारो रथाक्षवत् ।।७।। सदुद्ध्या यत् त्वया कार्य स्वकर्तव्ये विनिश्चितं । तत्सिद्ध्यै पूर्णशक्त्यैव यतस्वाचलचेतसा ।।६।। प्रसादकेषु कार्येषु संलग्नो भव चेतसा । आक्रान्तोऽपि शतैः कष्टैर्यावदन्तं दृढो भवन ।।६।। चरित्रगठने येषां शक्तिमत्ता न विद्यते । तेऽन्यदिक्षु महान्तोऽपि न लोके गौरवान्विताः ।। १०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy