SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ । काव्य परिच्छेदः ६६ शुभाचरणम् मित्रत्वेन समायाति साफल्यं सर्ववस्तुषु । शुभाचरणवृत्तिस्तु नूनं सर्वत्र कामसूः ।।१।। यतो न जायते कीर्तिभिश्चापि शुभोदयः 1 वैमुख्यमेव सुश्रेयस्ततोऽस्ति हितकारकम् ।।२।। अभ्युदयं सदाराध्यं यदि लोके समीहसे । तत्कार्यं तर्हि हातव्यं येन कीर्तिर्विहन्यते ।।३।। . विपत्कालेऽपि येषान्तु वस्तुयाथार्थ्यनिर्णयः । कुर्वन्ति नैव ते कर्म छुद्रं कीर्तिविराधकम् ।।४।। किं कृतनु मयाद्येति पश्चात्तापविधायकम् । कार्यं नैव सुधीः कुर्यात् कृतं नारोडितं पुनः ।।५।। विगर्हितानि सन्तीह यानि कार्याणि साधुभिः । जनन्या अपि रक्षार्थं तानि कुर्यान्न जातुचित् ।।६।। शुभाचारवतः पुंसो दारिद्रयमपि राजते ।। नत्त्वाचारविहीनस्य वैभवं धर्मवर्जितम् ।।७।। निषिद्धान्यपि कार्याणि यो नरो नैव मुंचति । सफलस्यापि तस्याहो निर्वृति व मानसे ।।८।। विलापैरजिता लक्ष्मीः क्रन्दनैः सह नश्यति । धर्मेण सञ्चिता सम्पन् मध्ये क्षीणापि वृद्धये ।।६।। आमकुम्भे भृतं नीरं यथैवास्ति निरर्थकम् । तथैव संचितं वित्तं मायया परवंचनात् ।।१०।। -- ENA
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy