________________
ज, कुरख काव्य - परिच्लेदः ६५
वाकपटुता वाग्मिनं हि वरीतर्ति वरदानं तिलक्षणाम् । तन्नांशोऽन्यस्य कस्यापि स्वतः सिद्धं तदीप्सितम् ।।१।।
मृत्युर्वसति जिव्हाग्रे जिव्हाग्रे ननु जीवनम् ।
अतः सुधीर्वदेद् वाणी विचायैव शुभां सदा ।।२।। वाचस्ता एव सुग्लाघ्या याः सक्ताः सख्यवर्धने । रिपूणामपि कल्पन्ते हृदयाकर्षणाय च ।।३।।
पर्यालोच्य नरः पूर्वं पश्चाद् भाषेत् भारतीम् ।
धर्मवृद्धिरतो नान्या लाभश्वापि शुभावहः ।।४।। वाणी सैव प्रयोक्तव्या यस्यां किंचिन्न हेयता । अनुल्लंध्या च या सवैलब्धसार्वगुणोदया ।।५।।
आशुविद् यः परार्थानां सुवक्ता चित्तकर्षकः ।
अधिकारी स एवास्ति राजनीतेर्विदांवरः ।।६।। नैव स्खलति यस्यान्तः सुवक्तुर्वादसंसदि । कथं पराजयः शक्यस्तस्य निर्भीकचेतसः ।।७।।
ओजस्वि वाड्.मय यस्य विश्वास्यं परिमार्जितम् ।
तदिंगते नरीनति समस्तं वसुधातलम् ।।८।। शब्दैः परिमितैरेव स्वाभिप्रायप्रकाशनम् । ये जना नैव जानन्ति तेषु वै वावदूकता ।।६।।
निजार्तितं यदि ज्ञानं स्वयं व्याख्यातुमक्षमः । नरो न शोभते तद्वन निर्गन्धं कुसुमं यथा ।।१०।। ।
--
---
65