SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः 83 विपदि धैर्यम् हसन् भव पुरोभागी विपत्तीनां समागमे । विपदा हि जये हासः सहाय मतः ।।। अव्यवस्थितचित्तोऽपि भवन्नेकाग्रमानसः । विपदां चेत् पुरःस्थायी तत्क्षुब्धाब्धिः प्रशाभ्यति ॥ २ ॥ विपदो मन्यते नैव विपदो यो हि मानवः । ध्रुवं तस्य निवर्तन्ते विपत्राः स्वयमापदः || ३|| प्राणेषु त्यक्तमोहः सन् यतते यो लुलायवत् । जेतुं सर्वापदस्तस्य हताशाः प्रतियान्ति ताः || ४ || स्वविपक्षे विपत्तीनां सज्जितां महतीं चमूम् । दृष्टवापि यस्य नाधैर्यं ततो विभ्यति ताः स्वयम् ॥१५॥ नासीत् सौभाग्यकालेऽपि प्रमोदो यस्य सद्मनि । स कथं कथयेत् सर्वं ' हा संप्रति विपद्धत : ' ।। ६ ।। इति वेत्ति स्वयं प्राज्ञो यद्देहो विपदां पदम् । अतएव विपन्नोऽपि नानुशोचति पण्डितः ||७|| यो विलासप्रियो नास्ति मन्यते चापदस्तथा । सहजा जन्मना साकं स दुःखातों न जायते ॥ ८ ॥ यस्य नास्ति महाहर्षः सम्पत्तीनामुपागमे । विषादोऽपि कथं तस्य भवेत् तासामपागमे || ६ || मन्यते सुखमायासे थषविगद्वये च यः । तं स्तुवन्ति महाधीरं विरुद्धा अपि वैरिणः ||१०|| 63
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy