SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ == कुशल काव्य पर परिच्छेदः ६२ पुरूषार्थः अशक्यमिति संभाष्य कर्म मा मुच दृरतः । उद्योगो वर्तते यस्मात् कामसूः सर्वकर्मसु ।।१।। सामिकार्यं न कुर्वीत लोकरीतिविशारदः । तद्विधात्रे यतः कोऽपि स्पृहयेन सचेतनः ।।२।। न जहाति विपत्ती यः सान्निध्यं तस्य गौरवम् । सेवारूपनिधिन्यासाल्लभ्यते तत् सुदुर्लभम् ।।३11 अनुद्योगवतो नूनमौदार्यं क्लीवखंगवत् । यतस्तयोड़ियोर्मध्ये नैकं चास्ति चिरस्थिरम् ।।४।। सुखे रतिर्न यस्यास्ति कामना किन्तु कर्मणः । आधारः स हि मित्राणां विपत्तावश्रुमार्जिकः ।।५।। अद्योगशीलिता लोके वैभवस्य यथा प्रसूः । दारिद्र्याशक्तियुग्मस्य जनकोऽस्ति तथालसः ।।६।। आलस्यं वर्तते नूनं दारिद्र्यस्य निवासभूः । गतालस्यश्रमश्चाथ कमलाकान्तमन्दिरम् ।।७।। नापि लज्जाकरं दैवाद् वैभवं यदि नश्यति । वैमुख्यं हि श्रमात् किन्तु लज्जायाः परमं पदम् ।।८।। वरमस्तु विपर्यस्त भाग्यं जातु कुदैवतः । पौरुषन्तु तथापीह फलं दत्ते क्रियाजुषे ।।६।। शश्वत्कर्मप्रसक्तो यो भाग्यचक्रे न निर्भरः । जय एवास्ति तस्याहो अपि भाग्यविपर्यये ।। १०।। 62
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy