SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ - कुबल काव्य यूर रिच्छेद: ६ आसयामः आलस्यं कुत्सितो वायुः पिण्डाघातेन यस्य हा । लुप्यते राजवंशस्याखण्डज्योतिर्धरातलात् ।।१।। अयमालस्यवानित्थ भाषन्तां मानवा वरम् । किन्वालस्यं स्वयं बुद्ध्वा हेयं वंशोन्निनीषुणा ।।२।। घातकं रोचते यस्मा आलस्यं पश्य तं जडम् । सह्यभागी स्वयं पश्येज्जीवन्नेव कुलक्षयम् ।।३।। आलस्यादुच्चकार्येषु येषां हस्तो न वर्तते । तद्गृहं क्षीणतां प्राप्य संकटेषु पतिष्यति ।।४।। कालस्य यापनं निद्रा शैथिल्यं विस्मृतिस्तथा । उत्सवस्य महानावः सन्त्येता हतभागिनः ।।५।। आलस्यर्निरतो लोकः कृपां लब्ध्वापि भूपतेः । कर्तुं समुन्नतिं नैव शक्नोति जगतीतले ।।६।। येषामुदात्तकार्येषु व्यापारो नास्ति हस्तयोः । न्यक्कारं वा घृणां नित्यं सहन्ते ते प्रमादिनः ।।७।। आलस्यमन्दिरं लोके जायते यत्कुटुम्बकम् । विपद्यते सपत्नानां क्षिप्रमेव करेषु तत् ।।८।। विपदुन्मुखोऽपि लोकोऽयं चेत् स्याद् विगतालसः । स्तभ्नन्ति तर्हि तत्रैवायान्तोऽपि क्रूरसंकटाः ।।६।। यो न देत्ति महीपाल आलस्यं नित्यकर्मयुक् । त्रैविक्रमैर्मितां पादैः स शास्ति सकलामिलाम् ।। १०।। - - 61
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy