SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ---- कुमरन काव्य पर पाटिलतः 0 उत्साहः उत्साहभूषिता एव सत्यं सम्पत्तिशालिनः । तद्विरुद्धाः पुनर्नेव स्वामिनः स्वश्रियामपि ।।१।। उत्साह एव लोकेऽस्मिन् सत्यं परमवैभवम् । अन्यद्धि सर्वनेश्वर्ष वायं न कर्हिचित् ।।२।। उत्साहसाधनं येषां करे नित्यं विराजते। ते धन्याः सर्वनाशेन न सीदन्ति कदाचन ।।३।। स धन्यो यः श्रमान्नैव दूरादेव पलायते । सौभाग्यश्रीस्तदावासमन्विष्यायात्यनेहसि ।।४।। क्षुपेभ्यो वारिदानेन पुष्पश्री सूच्यते यथा । नथोत्साहन भाग्यश्रीर्जायते देहधारिणः ।।५।। निजलक्ष्यं सदोदात्तं कार्य कुशलबुद्धिभिः । वैफल्येऽपि यतो जाते कलंकः कोऽपि नो भवेत् ।।६।। पराजितोऽप्यनुत्साहं भजते नैव साहसी । शराघातं रणे प्राप्य दृढपादो गजो यतः ।।७।। तं पश्य क्षीयते लोके यस्योत्साहः शनैः शनैः । अपारवैभवानन्दस्तस्य भाग्ये न वर्तते 11८।। पीनोन्नतेन देहेन खरदन्तैश्च दन्तिनः । को गुणो यदि वीक्ष्यैव मृगेन्द्रं म्रियते मनः ।।६।। अस्ति नूनं महोत्साहो महाशक्तिर्महीतले । ये सन्ति तेन हीनास्ते पशवो देहभेदतः ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy