SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ - जा कुबाप काव्य परिच्छेद: ५५ गुप्तचरः नेत्रद्वयेन भूपालो वीक्षते राज्यसंस्थितिम् । राजनीतिस्तु तत्रैक द्वितीयं चरसंज्ञकम् ।।१।। भूपतेरितिकर्तव्ये कर्तव्योऽयं विनिश्चितः । केषांचिच्चरितं पश्येत् प्रत्यहं चरचक्षुषा ।।२।। न वेत्ति घटनाचक्र चारैर्दूतैश्च यो निजैः । स शक्तोऽपि दिशो जेतुं न शक्नोति महीपतिः ।।३।। रिपूणां राजभृत्यानां बान्धावानांच भूपतिः । गति मतिंच विज्ञातुं नियुंजीत 'चर' सदा ।।४।। आकनियस्य नास्ति क्वापि सन्देहकारिणी । मा निगरभावश्च स चरो गुणवत्तरः ।।५।। वर्णितापसवेशेषु स्वान्तर्भावं निगृहयन् । येन केनापि यत्नेन स्वकार्य साधयेच्चरः ।।६।। परमर्मसमादाने निपुणो यो निसर्गतः । यस्य कार्यमसंदिग्धं शुद्धंचासौ चरो मतः ।।७।। अपरस्यावसर्पस्य तादृशीमेव सूचनाम् । प्राप्य पूर्वचरस्योक्ती कुर्यात् प्रामाण्यनिर्णयम् ।।८।। परस्परमजानन्तः स्पशाः कुर्युः समीहितम् । त्रयाणामेकवाक्ये तु सत्यं बुध्येत भूपतिः ।।६।। न हि स्वराज्यचाराणां पुरस्कार प्रकाशयेत् । अन्यथाकरणे राज्ञा राज्यमेव प्रकाश्यते ।।१।। 459
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy