________________
कुबल काव्य
परिच्छेदः ५७
भयप्रदकृत्यत्यागः
सुप्रणीतं यथासीमं दण्डं दद्यात् तथा नृपः । यथा नैन पुनर्दोषं कुर्यात् ततः ||१||
स्वप्रभुत्वबलं लोके चिरं वांछन्ति ये नृपाः । मृद्वाघातकरं दण्डं ते गृणन्तु स्वपाणिषु || २ ||
योऽसिनैव प्रजाः शास्ति स भूमीशो भयावहः । तत्सखः को भवेल्लोके तस्य नाशो विनिश्चितः ||३||
सुविख्यातं प्रजावर्गे निर्दयं यस्य शासनम् । अकाले स पदाअष्टो भूत्वा याति यमालयम् ।।४।। अगम्यभीमभूपस्य वैभवं तेन सन्निभम् । निधिना यत्र संवासो राक्षसस्य दुरात्मनः || ५ |
योऽमर्षणो नृपः क्रोधाद् ब्रवीत कटुकं वचः । समृद्धं वैभवं दुतं नडू. क्ष्यति नडू. क्ष्यति ।।६।।
दण्डदानं बहिःसीमं नित्यं कर्कशभाषणम् । इति शस्त्रद्वयं तीक्ष्णं छिनत्ति प्रभुतां दृढाम् ॥७॥
न गृह्णाति पूरा बुद्धिं मंत्रिभ्यो यो महीपतिः । क्षोभं याति च वैफल्ये क्षीयते तस्य वैभवम् ||८||
कालं लक्ष्यापि येनाही रक्षोपाया अनादृताः । स वेपथुं रणे पश्येत् स्वं स्तब्धो द्रुतपातितम् ।। ६ ।। यच्चाटुकारिमूर्खाणां परामर्शेऽस्ति निर्भरम् । तत् कुत्स्यं शासनं त्यक्त्वा को भारो भूव्यथाकरः ||१०||
57