SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः ५६ अत्याचारः यः प्रजा बाधते नित्यमत्याचारपरायणः । शासकोऽसौ न राजास्ति सोऽधमः किन्तु घातकात् || १ || शासनं यस्य हस्ते ऽस्ति विनम्रमपि तद्वचः । देहि सर्वं न किंचित्ते लुण्टाकस्य वचोनिभम् ||२|| राज्ये शासनचक्रं यो नृपो नित्यं न वीक्षते । न मार्ष्टि च त्रुटीः सर्वाः प्रभुत्वं तस्य क्षीयते ||३|| अहो तस्मिन महाशोको निर्विचारे नरेश्वरे । न्यायादपैति यस्तस्य राज्यं वित्तंच नश्यति ॥ ४ ॥ । असंशयं नृपान्यायत्रस्तानामश्रुबिन्दवः । वाहयन्ति तदीयां हि समृद्धिं सकलामपि ॥ ५ ॥ यशसा भूष्यते भूपो यदि न्यायेन शासनम् । अकीर्त्या दृष्यते सैव यद्यन्यायेन शासनम् ।।६।। या दशा जायले क्षोण्या वर्षाशून्ये नभस्तले । सा दशा सर्वभूतानां राज्ये निर्दयभूपतेः ॥ ७ ॥ | अन्यायिनो महीपस्य राज्ये सर्वेऽपि दुःखिनः । परा हि दुर्दशा तेषु धनिनां सर्वतो ऽधिका || ८ || उच्चरते यदा दोषादधर्मं न्यायंच भूपतिः । योग्यकालेऽपि तद्राज्ये जायते ऽवग्रहस्तदा ||६|| न्याय्यं हि शासनं जयाद् यदि राजा स्वदोषतः । धेनुस्तन्यविलोपः स्याद् द्विजविद्या च विस्मृता ||१०|| 56
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy