SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ परिकलेटः ५ न्यायशासनम् सम्यग्विचार्य निष्पक्षो भूत्वा चापि महीपते । नीतिज्ञसम्मत: शुद्धः कर्तव्यो न्यायविस्तरः ।।१।। जीवनस्य प्रदानाय लोको मेधं यथेक्षते । न्यायप्राप्त्यै तथा चायं राजदण्डं समीक्षते ।।२।। राजदण्डो यथेहास्ति मुख्यो धर्मस्य रक्षकः । राजदण्डस्तथैवास्ति विद्यानां परिपालकः ।।३।। स्निग्धदृष्ट्यैव यो राजा स्वराज्यं शास्ति सर्वदा । तं भूपति कदापीह राजश्रीनॆव मुंचति ।।४।। न्यायदण्डं समादत्ते भूपतियों यथाविधि । तद्राज्ये विपुला सस्यवृद्धि: स्याच्च सुवर्षणम् ।।५।। महीपतेः खरः कुन्तो विजये नास्ति कारणम् । विशुद्धो न्याय एवास्ति विजये किन्तु कारणम् ।।६।। भुवं रक्षति भूपालो गुणवृद्धेन तेजसा । विशुद्धो राजदण्डश्च तं नृपं पाति सर्वदा ।।७।। प्रजाभ्यो योऽस्ति दुर्दशों न्याये नापि विचारकः । अरिणा स च हीनोऽपि स्वपदाद् अश्यते नृपः ।।८।। अन्तरस्थाँस्तथा बाह्यान् दण्ड्यान् दण्डेन दण्डयन् । भृपः करोति कर्तव्यमतस्तस्मिन्न दूषणम् ।।६।। परित्राणाय साधूनां श्रेयान् दुष्टबधस्तथा । तृण्योच्छेदो यथा क्षेत्रे शालीनां हि समृद्धये ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy