SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ज, कुष काल्य पर परिच्छेद: ५3 बन्धुता एकैव बन्धुता यत्र स्नेहस्थैर्य विलोक्यते । अन्यथा विपदां चक्रे क्व च तस्यास्ति दर्शनम् ।।१।। गुणाढ्ये यत्र बन्धूनां स्नेहो नैवापचीयते । तस्य भाग्यवतो वृद्धः कोऽपि नास्ति निरोधकः ।।२। भूत्वा सहृदयो येन बन्धुस्नेहो न लभ्यते । तथैव विद्यते सोऽयं निराधारं सरो यथा ।।३।। वैभवस्य फिमुद्देशः कि फल पाप विद्यते । सम्बन्धिनां समाह्यनं प्रतिपत्त्या च मोहनम् ।।४।। वाण्यां यस्यातिमाधुर्यमौदार्यंच करे तथा । तस्य गेहं समायान्ति बन्थवो बद्धपंक्तयः ।।५।। सार्वं यस्यामितं दानं क्रोधशून्यंच जीवनम् । लोकबन्धुः स एवास्ति पश्यान्विष्य महीतलम् ।।६।। काको भक्ष्यं यथा स्वार्थाद् बन्धुभ्यो न निगृहते । एवं हि प्रकृतिर्यस्य वैभवं तस्य सपनि ।।७।। राजा यथागुणं बन्धून् सत्कुर्याद् गुणरागतः । अन्यथा बहवः सन्ति स्वस्वत्वामर्षिणो जनाः ।।५।। विरागहेतोः संत्यागादपसगोऽपि हीयते । एवं चित्तविशुद्ध्या तु गताप्यायाति बन्धुता ।।६।। त्यत्तस्नेहोऽपि बन्धुश्चेद् भूयोऽप्ययाति बन्धुताम् । सहर्षो मिलतेनामा धृत्वा किन्तु सतर्कताम् ।।१०।। --- --- ----53
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy