SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः ५१ उपयुक्तपरीक्षा अर्थो धर्मश्च कामश्च प्राणानां भयमेव च । उपयुक्तपरीक्षार्थं चतस्रो निकषा मताः ||१|| अप्रतिष्ठाभयं यस्य निर्दोषः कुलजस्तथा । स एव पुरुषो योग्यस्त्व सेवार्थं महीपते ||२|| ज्ञानविज्ञानसम्पत्रो यतिकल्पोऽपि यो नरः । सोऽक्रियो वरित विचारे अति उत्त्वतः || ३|| नरस्य सद्गुणान् पश्य दोषानपि तथैव च । अधिकाः सन्ति ये तेषु प्रकृतिस्तस्य तादृशी || ४ || वर्तते किमसौ क्षुद्रः किन्नु वायमुदारधीः । इति वेत्तुं नरः पश्येदाचारं निकषोपमम् ||५|| असमीक्ष्य न कर्तव्यो विश्वासो निष्कुटुम्बिनः । एकाकिनो यतस्तस्य मोहलज्जाविहीनता || ६ || मूढं कार्यविधेः शून्यं यः करोति स्वमंत्रदम् । केवलं प्रीतिमात्रेण स नृपो विपदां पदम् ॥७॥ अपरीक्षितविश्वासं कुरुते यो हि मानवः । सं संततिकृते दुःखबीजानि वपति ध्रुवम् ||८|| परीक्षितस्य विश्वासः कर्तव्यो हृष्टचेतसा । परीक्षिताय तद्योग्यं कार्यं देयं नृपालकैः || ६ || अज्ञातकुलशीलस्य विश्वासो भयदायकः । एवं विज्ञातशीलस्याप्रत्ययां दुःखकारकः ||१०|| 51
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy